Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - योहनः - योहनः 12

योहनः 12:34-46

Help us?
Click on verse(s) to share them!
34तदा लोका अकथयन् सोभिषिक्तः सर्व्वदा तिष्ठतीति व्यवस्थाग्रन्थे श्रुतम् अस्माभिः, तर्हि मनुष्यपुत्रः प्रोत्थापितो भविष्यतीति वाक्यं कथं वदसि? मनुष्यपुत्रोयं कः?
35तदा यीशुरकथायद् युष्माभिः सार्द्धम् अल्पदिनानि ज्योतिरास्ते, यथा युष्मान् अन्धकारो नाच्छादयति तदर्थं यावत्कालं युष्माभिः सार्द्धं ज्योतिस्तिष्ठति तावत्कालं गच्छत; यो जनोऽन्धकारे गच्छति स कुत्र यातीति न जानाति।
36अतएव यावत्कालं युष्माकं निकटे ज्योतिरास्ते तावत्कालं ज्योतीरूपसन्ताना भवितुं ज्योतिषि विश्वसित; इमां कथां कथयित्वा यीशुः प्रस्थाय तेभ्यः स्वं गुप्तवान्।
37यद्यपि यीशुस्तेषां समक्षम् एतावदाश्चर्य्यकर्म्माणि कृतवान् तथापि ते तस्मिन् न व्यश्वसन्।
38अतएव कः प्रत्येति सुसंवादं परेशास्मत् प्रचारितं? प्रकाशते परेशस्य हस्तः कस्य च सन्निधौ? यिशयियभविष्यद्वादिना यदेतद् वाक्यमुक्तं तत् सफलम् अभवत्।
39ते प्रत्येतुं नाशन्कुवन् तस्मिन् यिशयियभविष्यद्वादि पुनरवादीद्,
40यदा, "ते नयनै र्न पश्यन्ति बुद्धिभिश्च न बुध्यन्ते तै र्मनःसु परिवर्त्तितेषु च तानहं यथा स्वस्थान् न करोमि तथा स तेषां लोचनान्यन्धानि कृत्वा तेषामन्तःकरणानि गाढानि करिष्यति।"
41यिशयियो यदा यीशो र्महिमानं विलोक्य तस्मिन् कथामकथयत् तदा भविष्यद्वाक्यम् ईदृशं प्रकाशयत्।
42तथाप्यधिपतिनां बहवस्तस्मिन् प्रत्यायन्। किन्तु फिरूशिनस्तान् भजनगृहाद् दूरीकुर्व्वन्तीति भयात् ते तं न स्वीकृतवन्तः।
43यत ईश्वरस्य प्रशंसातो मानवानां प्रशंसायां तेऽप्रियन्त।
44तदा यीशुरुच्चैःकारम् अकथयद् यो जनो मयि विश्वसिति स केवले मयि विश्वसितीति न, स मत्प्रेरकेऽपि विश्वसिति।
45यो जनो मां पश्यति स मत्प्रेरकमपि पश्यति।
46यो जनो मां प्रत्येति स यथान्धकारे न तिष्ठति तदर्थम् अहं ज्योतिःस्वरूपो भूत्वा जगत्यस्मिन् अवतीर्णवान्।

Read योहनः 12योहनः 12
Compare योहनः 12:34-46योहनः 12:34-46