Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - लूकः - लूकः 17

लूकः 17:11-25

Help us?
Click on verse(s) to share them!
11स यिरूशालमि यात्रां कुर्व्वन् शोमिरोण्गालील्प्रदेशमध्येन गच्छति,
12एतर्हि कुत्रचिद् ग्रामे प्रवेशमात्रे दशकुष्ठिनस्तं साक्षात् कृत्वा
13दूरे तिष्ठनत उच्चै र्वक्तुमारेभिरे, हे प्रभो यीशो दयस्वास्मान्।
14ततः स तान् दृष्ट्वा जगाद, यूयं याजकानां समीपे स्वान् दर्शयत, ततस्ते गच्छन्तो रोगात् परिष्कृताः।
15तदा तेषामेकः स्वं स्वस्थं दृष्ट्वा प्रोच्चैरीश्वरं धन्यं वदन् व्याघुट्यायातो यीशो र्गुणाननुवदन् तच्चरणाधोभूमौ पपात;
16स चासीत् शोमिरोणी।
17तदा यीशुरवदत्, दशजनाः किं न परिष्कृताः? तह्यन्ये नवजनाः कुत्र?
18ईश्वरं धन्यं वदन्तम् एनं विदेशिनं विना कोप्यन्यो न प्राप्यत।
19तदा स तमुवाच, त्वमुत्थाय याहि विश्वासस्ते त्वां स्वस्थं कृतवान्।
20अथ कदेश्वरस्य राजत्वं भविष्यतीति फिरूशिभिः पृष्टे स प्रत्युवाच, ईश्वरस्य राजत्वम् ऐश्वर्य्यदर्शनेन न भविष्यति।
21अत एतस्मिन् पश्य तस्मिन् वा पश्य, इति वाक्यं लोका वक्तुं न शक्ष्यन्ति, ईश्वरस्य राजत्वं युष्माकम् अन्तरेवास्ते।
22ततः स शिष्यान् जगाद, यदा युष्माभि र्मनुजसुतस्य दिनमेकं द्रष्टुम् वाञ्छिष्यते किन्तु न दर्शिष्यते, ईदृक्काल आयाति।
23तदात्र पश्य वा तत्र पश्येति वाक्यं लोका वक्ष्यन्ति, किन्तु तेषां पश्चात् मा यात, मानुगच्छत च।
24यतस्तडिद् यथाकाशैकदिश्युदिय तदन्यामपि दिशं व्याप्य प्रकाशते तद्वत् निजदिने मनुजसूनुः प्रकाशिष्यते।
25किन्तु तत्पूर्व्वं तेनानेकानि दुःखानि भोक्तव्यान्येतद्वर्त्तमानलोकैश्च सोऽवज्ञातव्यः।

Read लूकः 17लूकः 17
Compare लूकः 17:11-25लूकः 17:11-25