Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - योहनः - योहनः 12

योहनः 12:15-40

Help us?
Click on verse(s) to share them!
15इति शास्त्रीयवचनानुसारेण यीशुरेकं युवगर्द्दभं प्राप्य तदुपर्य्यारोहत्।
16अस्याः घटनायास्तात्पर्य्यं शिष्याः प्रथमं नाबुध्यन्त, किन्तु यीशौ महिमानं प्राप्ते सति वाक्यमिदं तस्मिन अकथ्यत लोकाश्च तम्प्रतीत्थम् अकुर्व्वन् इति ते स्मृतवन्तः।
17स इलियासरं श्मशानाद् आगन्तुम् आह्वतवान् श्मशानाञ्च उदस्थापयद् ये ये लोकास्तत्कर्म्य साक्षाद् अपश्यन् ते प्रमाणं दातुम् आरभन्त।
18स एतादृशम् अद्भुतं कर्म्मकरोत् तस्य जनश्रुते र्लोकास्तं साक्षात् कर्त्तुम् आगच्छन्।
19ततः फिरूशिनः परस्परं वक्तुम् आरभन्त युष्माकं सर्व्वाश्चेष्टा वृथा जाताः, इति किं यूयं न बुध्यध्वे? पश्यत सर्व्वे लोकास्तस्य पश्चाद्वर्त्तिनोभवन्।
20भजनं कर्त्तुम् उत्सवागतानां लोकानां कतिपया जना अन्यदेशीया आसन् ,
21ते गालीलीयबैत्सैदानिवासिनः फिलिपस्य समीपम् आगत्य व्याहरन् हे महेच्छ वयं यीशुं द्रष्टुम् इच्छामः।
22ततः फिलिपो गत्वा आन्द्रियम् अवदत् पश्चाद् आन्द्रियफिलिपौ यीशवे वार्त्ताम् अकथयतां।
23तदा यीशुः प्रत्युदितवान् मानवसुतस्य महिमप्राप्तिसमय उपस्थितः।
24अहं युष्मानतियथार्थं वदामि, धान्यबीजं मृत्तिकायां पतित्वा यदि न मृयते तर्ह्येकाकी तिष्ठति किन्तु यदि मृयते तर्हि बहुगुणं फलं फलति।
25यो जनेा निजप्राणान् प्रियान् जानाति स तान् हारयिष्यति किन्तु येा जन इहलोके निजप्राणान् अप्रियान् जानाति सेानन्तायुः प्राप्तुं तान् रक्षिष्यति।
26कश्चिद् यदि मम सेवको भवितुं वाञ्छति तर्हि स मम पश्चाद्गामी भवतु, तस्माद् अहं यत्र तिष्ठामि मम सेवकेापि तत्र स्थास्यति; यो जनो मां सेवते मम पितापि तं सम्मंस्यते।
27साम्प्रतं मम प्राणा व्याकुला भवन्ति, तस्माद् हे पितर एतस्मात् समयान् मां रक्ष, इत्यहं किं प्रार्थयिष्ये? किन्त्वहम् एतत्समयार्थम् अवतीर्णवान्।
28हे पित: स्वनाम्नो महिमानं प्रकाशय; तनैव स्वनाम्नो महिमानम् अहं प्राकाशयं पुनरपि प्रकाशयिष्यामि, एषा गगणीया वाणी तस्मिन् समयेऽजायत।
29तच्श्रुत्वा समीपस्थलोकानां केचिद् अवदन् मेघोऽगर्जीत्, केचिद् अवदन् स्वर्गीयदूतोऽनेन सह कथामचकथत्।
30तदा यीशुः प्रत्यवादीत्, मदर्थं शब्दोयं नाभूत् युष्मदर्थमेवाभूत्।
31अधुना जगतोस्य विचार: सम्पत्स्यते, अधुनास्य जगत: पती राज्यात् च्योष्यति।
32यद्यई पृथिव्या ऊर्द्व्वे प्रोत्थापितोस्मि तर्हि सर्व्वान् मानवान् स्वसमीपम् आकर्षिष्यामि।
33कथं तस्य मृति र्भविष्यति, एतद् बोधयितुं स इमां कथाम् अकथयत्।
34तदा लोका अकथयन् सोभिषिक्तः सर्व्वदा तिष्ठतीति व्यवस्थाग्रन्थे श्रुतम् अस्माभिः, तर्हि मनुष्यपुत्रः प्रोत्थापितो भविष्यतीति वाक्यं कथं वदसि? मनुष्यपुत्रोयं कः?
35तदा यीशुरकथायद् युष्माभिः सार्द्धम् अल्पदिनानि ज्योतिरास्ते, यथा युष्मान् अन्धकारो नाच्छादयति तदर्थं यावत्कालं युष्माभिः सार्द्धं ज्योतिस्तिष्ठति तावत्कालं गच्छत; यो जनोऽन्धकारे गच्छति स कुत्र यातीति न जानाति।
36अतएव यावत्कालं युष्माकं निकटे ज्योतिरास्ते तावत्कालं ज्योतीरूपसन्ताना भवितुं ज्योतिषि विश्वसित; इमां कथां कथयित्वा यीशुः प्रस्थाय तेभ्यः स्वं गुप्तवान्।
37यद्यपि यीशुस्तेषां समक्षम् एतावदाश्चर्य्यकर्म्माणि कृतवान् तथापि ते तस्मिन् न व्यश्वसन्।
38अतएव कः प्रत्येति सुसंवादं परेशास्मत् प्रचारितं? प्रकाशते परेशस्य हस्तः कस्य च सन्निधौ? यिशयियभविष्यद्वादिना यदेतद् वाक्यमुक्तं तत् सफलम् अभवत्।
39ते प्रत्येतुं नाशन्कुवन् तस्मिन् यिशयियभविष्यद्वादि पुनरवादीद्,
40यदा, "ते नयनै र्न पश्यन्ति बुद्धिभिश्च न बुध्यन्ते तै र्मनःसु परिवर्त्तितेषु च तानहं यथा स्वस्थान् न करोमि तथा स तेषां लोचनान्यन्धानि कृत्वा तेषामन्तःकरणानि गाढानि करिष्यति।"

Read योहनः 12योहनः 12
Compare योहनः 12:15-40योहनः 12:15-40