Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - लूकः - लूकः 13

लूकः 13:1-12

Help us?
Click on verse(s) to share them!
1अपरञ्च पीलातो येषां गालीलीयानां रक्तानि बलीनां रक्तैः सहामिश्रयत् तेषां गालीलीयानां वृत्तान्तं कतिपयजना उपस्थाप्य यीशवे कथयामासुः।
2ततः स प्रत्युवाच तेषां लोकानाम् एतादृशी दुर्गति र्घटिता तत्कारणाद् यूयं किमन्येभ्यो गालीलीयेभ्योप्यधिकपापिनस्तान् बोधध्वे?
3युष्मानहं वदामि तथा न किन्तु मनःसु न परावर्त्तितेषु यूयमपि तथा नंक्ष्यथ।
4अपरञ्च शीलोहनाम्न उच्चगृहस्य पतनाद् येऽष्टादशजना मृतास्ते यिरूशालमि निवासिसर्व्वलोकेभ्योऽधिकापराधिनः किं यूयमित्यं बोधध्वे?
5युष्मानहं वदामि तथा न किन्तु मनःसु न परिवर्त्तितेषु यूयमपि तथा नंक्ष्यथ।
6अनन्तरं स इमां दृष्टान्तकथामकथयद् एको जनो द्राक्षाक्षेत्रमध्य एकमुडुम्बरवृक्षं रोपितवान्। पश्चात् स आगत्य तस्मिन् फलानि गवेषयामास,
7किन्तु फलाप्राप्तेः कारणाद् उद्यानकारं भृत्यं जगाद, पश्य वत्सरत्रयं यावदागत्य एतस्मिन्नुडुम्बरतरौ क्षलान्यन्विच्छामि, किन्तु नैकमपि प्रप्नोमि तरुरयं कुतो वृथा स्थानं व्याप्य तिष्ठति? एनं छिन्धि।
8ततो भृत्यः प्रत्युवाच, हे प्रभो पुनर्वर्षमेकं स्थातुम् आदिश; एतस्य मूलस्य चतुर्दिक्षु खनित्वाहम् आलवालं स्थापयामि।
9ततः फलितुं शक्नोति यदि न फलति तर्हि पश्चात् छेत्स्यसि।
10अथ विश्रामवारे भजनगेहे यीशुरुपदिशति
11तस्मित् समये भूतग्रस्तत्वात् कुब्जीभूयाष्टादशवर्षाणि यावत् केनाप्युपायेन ऋजु र्भवितुं न शक्नोति या दुर्ब्बला स्त्री,
12तां तत्रोपस्थितां विलोक्य यीशुस्तामाहूय कथितवान् हे नारि तव दौर्ब्बल्यात् त्वं मुक्ता भव।

Read लूकः 13लूकः 13
Compare लूकः 13:1-12लूकः 13:1-12