Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - लूकः - लूकः 18

लूकः 18:37-43

Help us?
Click on verse(s) to share them!
37नासरतीययीशुर्यातीति लोकैरुक्ते स उच्चैर्वक्तुमारेभे,
38हे दायूदः सन्तान यीशो मां दयस्व।
39ततोग्रगामिनस्तं मौनी तिष्ठेति तर्जयामासुः किन्तु स पुनारुवन् उवाच, हे दायूदः सन्तान मां दयस्व।
40तदा यीशुः स्थगितो भूत्वा स्वान्तिके तमानेतुम् आदिदेश।
41ततः स तस्यान्तिकम् आगमत्, तदा स तं पप्रच्छ, त्वं किमिच्छसि? त्वदर्थमहं किं करिष्यामि? स उक्तवान्, हे प्रभोऽहं द्रष्टुं लभै।
42तदा यीशुरुवाच, दृष्टिशक्तिं गृहाण तव प्रत्ययस्त्वां स्वस्थं कृतवान्।
43ततस्तत्क्षणात् तस्य चक्षुषी प्रसन्ने; तस्मात् स ईश्वरं धन्यं वदन् तत्पश्चाद् ययौ, तदालोक्य सर्व्वे लोका ईश्वरं प्रशंसितुम् आरेभिरे।

Read लूकः 18लूकः 18
Compare लूकः 18:37-43लूकः 18:37-43