Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - योहनः - योहनः 13

योहनः 13:11-29

Help us?
Click on verse(s) to share them!
11यतो यो जनस्तं परकरेषु समर्पयिष्यति तं स ज्ञातवान; अतएव यूयं सर्व्वे न परिष्कृता इमां कथां कथितवान्।
12इत्थं यीशुस्तेषां पादान् प्रक्षाल्य वस्त्रं परिधायासने समुपविश्य कथितवान् अहं युष्मान् प्रति किं कर्म्माकार्षं जानीथ?
13यूयं मां गुरुं प्रभुञ्च वदथ तत् सत्यमेव वदथ यतोहं सएव भवामि।
14यद्यहं प्रभु र्गुरुश्च सन् युष्माकं पादान् प्रक्षालितवान् तर्हि युष्माकमपि परस्परं पादप्रक्षालनम् उचितम्।
15अहं युष्मान् प्रति यथा व्यवाहरं युष्मान् तथा व्यवहर्त्तुम् एकं पन्थानं दर्शितवान्।
16अहं युष्मानतियथार्थं वदामि, प्रभो र्दासो न महान् प्रेरकाच्च प्रेरितो न महान्।
17इमां कथां विदित्वा यदि तदनुसारतः कर्म्माणि कुरुथ तर्हि यूयं धन्या भविष्यथ।
18सर्व्वेषु युष्मासु कथामिमां कथयामि इति न, ये मम मनोनीतास्तानहं जानामि, किन्तु मम भक्ष्याणि यो भुङ्क्ते मत्प्राणप्रातिकूल्यतः। उत्थापयति पादस्य मूलं स एष मानवः।यदेतद् धर्म्मपुस्तकस्य वचनं तदनुसारेणावश्यं घटिष्यते।
19अहं स जन इत्यत्र यथा युष्माकं विश्वासो जायते तदर्थं एतादृशघटनात् पूर्व्वम् अहमिदानीं युष्मभ्यमकथयम्।
20अहं युष्मानतीव यथार्थं वदामि, मया प्रेरितं जनं यो गृह्लाति स मामेव गृह्लाति यश्च मां गृह्लाति स मत्प्रेरकं गृह्लाति।
21एतां कथां कथयित्वा यीशु र्दुःखी सन् प्रमाणं दत्त्वा कथितवान् अहं युष्मानतियथार्थं वदामि युष्माकम् एको जनो मां परकरेषु समर्पयिष्यति।
22ततः स कमुद्दिश्य कथामेतां कथितवान् इत्यत्र सन्दिग्धाः शिष्याः परस्परं मुखमालोकयितुं प्रारभन्त।
23तस्मिन् समये यीशु र्यस्मिन् अप्रीयत स शिष्यस्तस्य वक्षःस्थलम् अवालम्बत।
24शिमोन्पितरस्तं सङ्केतेनावदत्, अयं कमुद्दिश्य कथामेताम् कथयतीति पृच्छ।
25तदा स यीशो र्वक्षःस्थलम् अवलम्ब्य पृष्ठवान्, हे प्रभो स जनः कः?
26ततो यीशुः प्रत्यवदद् एकखण्डं पूपं मज्जयित्वा यस्मै दास्यामि सएव सः; पश्चात् पूपखण्डमेकं मज्जयित्वा शिमोनः पुत्राय ईष्करियोतीयाय यिहूदै दत्तवान्।
27तस्मिन् दत्ते सति शैतान् तमाश्रयत्; तदा यीशुस्तम् अवदत् त्वं यत् करिष्यसि तत् क्षिप्रं कुरु।
28किन्तु स येनाशयेन तां कथामकथायत् तम् उपविष्टलोकानां कोपि नाबुध्यत;
29किन्तु यिहूदाः समीपे मुद्रासम्पुटकस्थितेः केचिद् इत्थम् अबुध्यन्त पार्व्वणासादनार्थं किमपि द्रव्यं क्रेतुं वा दरिद्रेभ्यः किञ्चिद् वितरितुं कथितवान्।

Read योहनः 13योहनः 13
Compare योहनः 13:11-29योहनः 13:11-29