32तदा तौ प्ररितौ गत्वा तत्कथाानुसारेण सर्व्वं प्राप्तौ।
33गर्दभशावकमोचनकाले तत्वामिन ऊचुः, गर्दभशावकं कुतो मोचयथः?
34तावूचतुः प्रभोरत्र प्रयोजनम् आस्ते।
35पश्चात् तौ तं गर्दभशावकं यीशोरन्तिकमानीय तत्पृष्ठे निजवसनानि पातयित्वा तदुपरि यीशुमारोहयामासतुः।
36अथ यात्राकाले लोकाः पथि स्ववस्त्राणि पातयितुम् आरेभिरे।
37अपरं जैतुनाद्रेरुपत्यकाम् इत्वा शिष्यसंघः पूर्व्वदृष्टानि महाकर्म्माणि स्मृत्वा,
38यो राजा प्रभो र्नाम्नायाति स धन्यः स्वर्गे कुशलं सर्व्वोच्चे जयध्वनि र्भवतु, कथामेतां कथयित्वा सानन्दम् उचैरीश्वरं धन्यं वक्तुमारेभे।
39तदा लोकारण्यमध्यस्थाः कियन्तः फिरूशिनस्तत् श्रुत्वा यीशुं प्रोचुः, हे उपदेशक स्वशिष्यान् तर्जय।