4तदा यीशु र्भोजनासनाद् उत्थाय गात्रवस्त्रं मोचयित्वा गात्रमार्जनवस्त्रं गृहीत्वा तेन स्वकटिम् अबध्नात्,
5पश्चाद् एकपात्रे जलम् अभिषिच्य शिष्याणां पादान् प्रक्षाल्य तेन कटिबद्धगात्रमार्जनवाससा मार्ष्टुं प्रारभत।
6ततः शिमोन्पितरस्य समीपमागते स उक्तवान् हे प्रभो भवान् किं मम पादौ प्रक्षालयिष्यति?
7यीशुरुदितवान् अहं यत् करोमि तत् सम्प्रति न जानासि किन्तु पश्चाज् ज्ञास्यसि।
8ततः पितरः कथितवान् भवान् कदापि मम पादौ न प्रक्षालयिष्यति। यीशुरकथयद् यदि त्वां न प्रक्षालये तर्हि मयि तव कोप्यंशो नास्ति।
9तदा शिमोन्पितरः कथितवान् हे प्रभो तर्हि केवलपादौ न, मम हस्तौ शिरश्च प्रक्षालयतु।
10ततो यीशुरवदद् यो जनो धौतस्तस्य सर्व्वाङ्गपरिष्कृतत्वात् पादौ विनान्याङ्गस्य प्रक्षालनापेक्षा नास्ति। यूयं परिष्कृता इति सत्यं किन्तु न सर्व्वे,
11यतो यो जनस्तं परकरेषु समर्पयिष्यति तं स ज्ञातवान; अतएव यूयं सर्व्वे न परिष्कृता इमां कथां कथितवान्।
12इत्थं यीशुस्तेषां पादान् प्रक्षाल्य वस्त्रं परिधायासने समुपविश्य कथितवान् अहं युष्मान् प्रति किं कर्म्माकार्षं जानीथ?
13यूयं मां गुरुं प्रभुञ्च वदथ तत् सत्यमेव वदथ यतोहं सएव भवामि।
14यद्यहं प्रभु र्गुरुश्च सन् युष्माकं पादान् प्रक्षालितवान् तर्हि युष्माकमपि परस्परं पादप्रक्षालनम् उचितम्।