13पश्चात् पीलातः प्रधानयाजकान् शासकान् लोकांश्च युगपदाहूय बभाषे,
14राज्यविपर्य्ययकारकोयम् इत्युक्त्वा मनुष्यमेनं मम निकटमानैष्ट किन्तु पश्यत युष्माकं समक्षम् अस्य विचारं कृत्वापि प्रोक्तापवादानुरूपेणास्य कोप्यपराधः सप्रमाणो न जातः,
15यूयञ्च हेरोदः सन्निधौ प्रेषिता मया तत्रास्य कोप्यपराधस्तेनापि न प्राप्तः।पश्यतानेन वधहेेतुकं किमपि नापराद्धं।
16तस्मादेनं ताडयित्वा विहास्यामि।
17तत्रोत्सवे तेषामेको मोचयितव्यः।
18इति हेतोस्ते प्रोच्चैरेकदा प्रोचुः, एनं दूरीकृत्य बरब्बानामानं मोचय।
19स बरब्बा नगर उपप्लववधापराधाभ्यां कारायां बद्ध आसीत्।
20किन्तु पीलातो यीशुं मोचयितुं वाञ्छन् पुनस्तानुवाच।
21तथाप्येनं क्रुशे व्यध क्रुशे व्यधेति वदन्तस्ते रुरुवुः।
22ततः स तृतीयवारं जगाद कुतः? स किं कर्म्म कृतवान्? नाहमस्य कमपि वधापराधं प्राप्तः केवलं ताडयित्वामुं त्यजामि।