Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - लूकः - लूकः 18

लूकः 18:11-24

Help us?
Click on verse(s) to share them!
11ततोऽसौ फिरूश्येकपार्श्वे तिष्ठन् हे ईश्वर अहमन्यलोकवत् लोठयितान्यायी पारदारिकश्च न भवामि अस्य करसञ्चायिनस्तुल्यश्च न, तस्मात्त्वां धन्यं वदामि।
12सप्तसु दिनेषु दिनद्वयमुपवसामि सर्व्वसम्पत्ते र्दशमांशं ददामि च, एतत्कथां कथयन् प्रार्थयामास।
13किन्तु स करसञ्चायि दूरे तिष्ठन् स्वर्गं द्रष्टुं नेच्छन् वक्षसि कराघातं कुर्व्वन् हे ईश्वर पापिष्ठं मां दयस्व, इत्थं प्रार्थयामास।
14युष्मानहं वदामि, तयोर्द्वयो र्मध्ये केवलः करसञ्चायी पुण्यवत्त्वेन गणितो निजगृहं जगाम, यतो यः कश्चित् स्वमुन्नमयति स नामयिष्यते किन्तु यः कश्चित् स्वं नमयति स उन्नमयिष्यते।
15अथ शिशूनां गात्रस्पर्शार्थं लोकास्तान् तस्य समीपमानिन्युः शिष्यास्तद् दृष्ट्वानेतृन् तर्जयामासुः,
16किन्तु यीशुस्तानाहूय जगाद, मन्निकटम् आगन्तुं शिशून् अनुजानीध्वं तांश्च मा वारयत; यत ईश्वरराज्याधिकारिण एषां सदृशाः।
17अहं युष्मान् यथार्थं वदामि, यो जनः शिशोः सदृशो भूत्वा ईश्वरराज्यं न गृह्लाति स केनापि प्रकारेण तत् प्रवेष्टुं न शक्नोति।
18अपरम् एकोधिपतिस्तं पप्रच्छ, हे परमगुरो, अनन्तायुषः प्राप्तये मया किं कर्त्तव्यं?
19यीशुरुवाच, मां कुतः परमं वदसि? ईश्वरं विना कोपि परमो न भवति।
20परदारान् मा गच्छ, नरं मा जहि, मा चोरय, मिथ्यासाक्ष्यं मा देहि, मातरं पितरञ्च संमन्यस्व, एता या आज्ञाः सन्ति तास्त्वं जानासि।
21तदा स उवाच, बाल्यकालात् सर्व्वा एता आचरामि।
22इति कथां श्रुत्वा यीशुस्तमवदत्, तथापि तवैकं कर्म्म न्यूनमास्ते, निजं सर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, तस्मात् स्वर्गे धनं प्राप्स्यसि; तत आगत्य ममानुगामी भव।
23किन्त्वेतां कथां श्रुत्वा सोधिपतिः शुशोच, यतस्तस्य बहुधनमासीत्।
24तदा यीशुस्तमतिशोकान्वितं दृष्ट्वा जगाद, धनवताम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः।

Read लूकः 18लूकः 18
Compare लूकः 18:11-24लूकः 18:11-24