41तदा मृतस्य श्मशानात् पाषाणोऽपसारिते यीशुरूर्द्व्वं पश्यन् अकथयत्, हे पित र्मम नेवेसनम् अशृणोः कारणादस्मात् त्वां धन्यं वदामि।
42त्वं सततं शृणोषि तदप्यहं जानामि, किन्तु त्वं मां यत् प्रैरयस्तद् यथास्मिन् स्थाने स्थिता लोका विश्वसन्ति तदर्थम् इदं वाक्यं वदामि।
43इमां कथां कथयित्वा स प्रोच्चैराह्वयत्, हे इलियासर् बहिरागच्छ।
44ततः स प्रमीतः श्मशानवस्त्रै र्बद्धहस्तपादो गात्रमार्जनवाससा बद्धमुखश्च बहिरागच्छत्। यीशुरुदितवान् बन्धनानि मोचयित्वा त्यजतैनं।
45मरियमः समीपम् आगता ये यिहूदीयलोकास्तदा यीशोरेतत् कर्म्मापश्यन् तेषां बहवो व्यश्वसन्,
46किन्तु केचिदन्ये फिरूशिनां समीपं गत्वा यीशोरेतस्य कर्म्मणो वार्त्ताम् अवदन्।
47ततः परं प्रधानयाजकाः फिरूशिनाश्च सभां कृत्वा व्याहरन् वयं किं कुर्म्मः? एष मानवो बहून्याश्चर्य्यकर्म्माणि करोति।
48यदीदृशं कर्म्म कर्त्तुं न वारयामस्तर्हि सर्व्वे लोकास्तस्मिन् विश्वसिष्यन्ति रोमिलोकाश्चागत्यास्माकम् अनया राजधान्या सार्द्धं राज्यम् आछेत्स्यन्ति।
49तदा तेषां कियफानामा यस्तस्मिन् वत्सरे महायाजकपदे न्ययुज्यत स प्रत्यवदद् यूयं किमपि न जानीथ;
50समग्रदेशस्य विनाशतोपि सर्व्वलोकार्थम् एकस्य जनस्य मरणम् अस्माकं मङ्गलहेतुकम् एतस्य विवेचनामपि न कुरुथ।
51एतां कथां स निजबुद्ध्या व्याहरद् इति न,
52किन्तु यीशूस्तद्देशीयानां कारणात् प्राणान् त्यक्ष्यति, दिशि दिशि विकीर्णान् ईश्वरस्य सन्तानान् संगृह्यैकजातिं करिष्यति च, तस्मिन् वत्सरे कियफा महायाजकत्वपदे नियुक्तः सन् इदं भविष्यद्वाक्यं कथितवान्।
53तद्दिनमारभ्य ते कथं तं हन्तुं शक्नुवन्तीति मन्त्रणां कर्त्तुं प्रारेभिरे।