4तदा यीशुस्तेभ्योऽकथयत् स्वदेशं स्वकुटुम्बान् स्वपरिजनांश्च विना कुत्रापि भविष्यद्वादी असत्कृतो न भवति।
5अपरञ्च तेषामप्रत्ययात् स विस्मितः कियतां रोगिणां वपुःषु हस्तम् अर्पयित्वा केवलं तेषामारोग्यकरणाद् अन्यत् किमपि चित्रकार्य्यं कर्त्तां न शक्तः।
6अथ स चतुर्दिक्स्थ ग्रामान् भ्रमित्वा उपदिष्टवान्
7द्वादशशिष्यान् आहूय अमेध्यभूतान् वशीकर्त्तां शक्तिं दत्त्वा तेषां द्वौ द्वौ जनो प्रेषितवान्।
8पुनरित्यादिशद् यूयम् एकैकां यष्टिं विना वस्त्रसंपुटः पूपः कटिबन्धे ताम्रखण्डञ्च एषां किमपि मा ग्रह्लीत,
9मार्गयात्रायै पादेषूपानहौ दत्त्वा द्वे उत्तरीये मा परिधद्व्वं।
10अपरमप्युक्तं तेन यूयं यस्यां पुर्य्यां यस्य निवेशनं प्रवेक्ष्यथ तां पुरीं यावन्न त्यक्ष्यथ तावत् तन्निवेशने स्थास्यथ।
11तत्र यदि केपि युष्माकमातिथ्यं न विदधति युष्माकं कथाश्च न शृण्वन्ति तर्हि तत्स्थानात् प्रस्थानसमये तेषां विरुद्धं साक्ष्यं दातुं स्वपादानास्फाल्य रजः सम्पातयत; अहं युष्मान् यथार्थं वच्मि विचारदिने तन्नगरस्यावस्थातः सिदोमामोरयो र्नगरयोरवस्था सह्यतरा भविष्यति।
12अथ ते गत्वा लोकानां मनःपरावर्त्तनीः कथा प्रचारितवन्तः।
13एवमनेकान् भूतांश्च त्याजितवन्तस्तथा तैलेन मर्द्दयित्वा बहून् जनानरोगानकार्षुः।
14इत्थं तस्य सुख्यातिश्चतुर्दिशो व्याप्ता तदा हेरोद् राजा तन्निशम्य कथितवान्, योहन् मज्जकः श्मशानाद् उत्थित अतोहेतोस्तेन सर्व्वा एता अद्भुतक्रियाः प्रकाशन्ते।