Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - रोमिणः - रोमिणः 3

रोमिणः 3:4-21

Help us?
Click on verse(s) to share them!
4केनापि प्रकारेण नहि। यद्यपि सर्व्वे मनुष्या मिथ्यावादिनस्तथापीश्वरः सत्यवादी। शास्त्रे यथा लिखितमास्ते, अतस्त्वन्तु स्ववाक्येन निर्द्दोषो हि भविष्यसि। विचारे चैव निष्पापो भविष्यसि न संशयः।
5अस्माकम् अन्यायेन यदीश्वरस्य न्यायः प्रकाशते तर्हि किं वदिष्यामः? अहं मानुषाणां कथामिव कथां कथयामि, ईश्वरः समुचितं दण्डं दत्त्वा किम् अन्यायी भविष्यति?
6इत्थं न भवतु, तथा सतीश्वरः कथं जगतो विचारयिता भविष्यति?
7मम मिथ्यावाक्यवदनाद् यदीश्वरस्य सत्यत्वेन तस्य महिमा वर्द्धते तर्हि कस्मादहं विचारेऽपराधित्वेन गण्यो भवामि?
8मङ्गलार्थं पापमपि करणीयमिति वाक्यं त्वया कुतो नोच्यते? किन्तु यैरुच्यते ते नितान्तं दण्डस्य पात्राणि भवन्ति; तथापि तद्वाक्यम् अस्माभिरप्युच्यत इत्यस्माकं ग्लानिं कुर्व्वन्तः कियन्तो लोका वदन्ति।
9अन्यलोकेभ्यो वयं किं श्रेष्ठाः? कदाचन नहि यतो यिहूदिनो ऽन्यदेशिनश्च सर्व्वएव पापस्यायत्ता इत्यस्य प्रमाणं वयं पूर्व्वम् अददाम।
10लिपि र्यथास्ते, नैकोपि धार्म्मिको जनः।
11तथा ज्ञानीश्वरज्ञानी मानवः कोपि नास्ति हि।
12विमार्गगामिनः सर्व्वे सर्व्वे दुष्कर्म्मकारिणः। एको जनोपि नो तेषां साधुकर्म्म करोति च।
13तथा तेषान्तु वै कण्ठा अनावृतश्मशानवत्। स्तुतिवादं प्रकुर्व्वन्ति जिह्वाभिस्ते तु केवलं। तेषामोष्ठस्य निम्ने तु विषं तिष्ठति सर्प्पवत्।
14मुखं तेषां हि शापेन कपटेन च पूर्य्यते।
15रक्तपाताय तेषां तु पदानि क्षिप्रगानि च।
16पथि तेषां मनुष्याणां नाशः क्लेशश्च केवलः।
17ते जना नहि जानन्ति पन्थानं सुखदायिनं।
18परमेशाद् भयं यत्तत् तच्चक्षुषोरगोचरं।
19व्यवस्थायां यद्यल्लिखति तद् व्यवस्थाधीनान् लोकान् उद्दिश्य लिखतीति वयं जानीमः। ततो मनुष्यमात्रो निरुत्तरः सन् ईश्वरस्य साक्षाद् अपराधी भवति।
20अतएव व्यवस्थानुरूपैः कर्म्मभिः कश्चिदपि प्राणीश्वरस्य साक्षात् सपुण्यीकृतो भवितुं न शक्ष्यति यतो व्यवस्थया पापज्ञानमात्रं जायते।
21किन्तु व्यवस्थायाः पृथग् ईश्वरेण देयं यत् पुण्यं तद् व्यवस्थाया भविष्यद्वादिगणस्य च वचनैः प्रमाणीकृतं सद् इदानीं प्रकाशते।

Read रोमिणः 3रोमिणः 3
Compare रोमिणः 3:4-21रोमिणः 3:4-21