Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - मार्कः - मार्कः 9

मार्कः 9:2-32

Help us?
Click on verse(s) to share them!
2अथ षड्दिनेभ्यः परं यीशुः पितरं याकूबं योहनञ्च गृहीत्वा गिरेरुच्चस्य निर्जनस्थानं गत्वा तेषां प्रत्यक्षे मूर्त्यन्तरं दधार।
3ततस्तस्य परिधेयम् ईदृशम् उज्ज्वलहिमपाणडरं जातं यद् जगति कोपि रजको न तादृक् पाणडरं कर्त्तां शक्नोति।
4अपरञ्च एलियो मूसाश्च तेभ्यो दर्शनं दत्त्वा यीशुना सह कथनं कर्त्तुमारेभाते।
5तदा पितरो यीशुमवादीत् हे गुरोऽस्माकमत्र स्थितिरुत्तमा, ततएव वयं त्वत्कृते एकां मूसाकृते एकाम् एलियकृते चैकां, एतास्तिस्रः कुटी र्निर्म्माम।
6किन्तु स यदुक्तवान् तत् स्वयं न बुबुधे ततः सर्व्वे बिभयाञ्चक्रुः।
7एतर्हि पयोदस्तान् छादयामास, ममयां प्रियः पुत्रः कथासु तस्य मनांसि निवेशयतेति नभोवाणी तन्मेद्यान्निर्ययौ।
8अथ हठात्ते चतुर्दिशो दृष्ट्वा यीशुं विना स्वैः सहितं कमपि न ददृशुः।
9ततः परं गिरेरवरोहणकाले स तान् गाढम् दूत्यादिदेश यावन्नरसूनोः श्मशानादुत्थानं न भवति, तावत् दर्शनस्यास्य वार्त्ता युष्माभिः कस्मैचिदपि न वक्तव्या।
10तदा श्मशानादुत्थानस्य कोभिप्राय इति विचार्य्य ते तद्वाक्यं स्वेषु गोपायाञ्चक्रिरे।
11अथ ते यीशुं पप्रच्छुः प्रथमत एलियेनागन्तव्यम् इति वाक्यं कुत उपाध्याया आहुः?
12तदा स प्रत्युवाच , एलियः प्रथममेत्य सर्व्वकार्य्याणि साधयिष्यति; नरपुत्रे च लिपि र्यथास्ते तथैव सोपि बहुदुःखं प्राप्यावज्ञास्यते।
13किन्त्वहं युष्मान् वदामि , एलियार्थे लिपि र्यथास्ते तथैव स एत्य ययौ, लोका: स्वेच्छानुरूपं तमभिव्यवहरन्ति स्म।
14अनन्तरं स शिष्यसमीपमेत्य तेषां चतुःपार्श्वे तैः सह बहुजनान् विवदमानान् अध्यापकांश्च दृष्टवान्;
15किन्तु सर्व्वलोकास्तं दृष्ट्वैव चमत्कृत्य तदासन्नं धावन्तस्तं प्रणेमुः।
16तदा यीशुरध्यापकानप्राक्षीद् एतैः सह यूयं किं विवदध्वे?
17ततो लोकानां कश्चिदेकः प्रत्यवादीत् हे गुरो मम सूनुं मूकं भूतधृतञ्च भवदासन्नम् आनयं।
18यदासौ भूतस्तमाक्रमते तदैव पातसति तथा स फेणायते, दन्तैर्दन्तान् घर्षति क्षीणो भवति च; ततो हेतोस्तं भूतं त्याजयितुं भवच्छिष्यान् निवेदितवान् किन्तु ते न शेकुः।
19तदा स तमवादीत्, रे अविश्वासिनः सन्ताना युष्माभिः सह कति कालानहं स्थास्यामि? अपरान् कति कालान् वा व आचारान् सहिष्ये? तं मदासन्नमानयत।
20ततस्तत्सन्निधिं स आनीयत किन्तु तं दृष्ट्वैव भूतो बालकं धृतवान्; स च भूमौ पतित्वा फेणायमानो लुलोठ।
21तदा स तत्पितरं पप्रच्छ, अस्येदृशी दशा कति दिनानि भूता? ततः सोवादीत् बाल्यकालात्।
22भूतोयं तं नाशयितुं बहुवारान् वह्नौ जले च न्यक्षिपत् किन्तु यदि भवान किमपि कर्त्तां शक्नोति तर्हि दयां कृत्वास्मान् उपकरोतु।
23तदा यीशुस्तमवदत् यदि प्रत्येतुं शक्नोषि तर्हि प्रत्ययिने जनाय सर्व्वं साध्यम्।
24ततस्तत्क्षणं तद्बालकस्य पिता प्रोच्चै रूवन् साश्रुनेत्रः प्रोवाच, प्रभो प्रत्येमि ममाप्रत्ययं प्रतिकुरु।
25अथ यीशु र्लोकसङ्घं धावित्वायान्तं दृष्ट्वा तमपूतभूतं तर्जयित्वा जगाद, रे बधिर मूक भूत त्वमेतस्माद् बहिर्भव पुनः कदापि माश्रयैनं त्वामहम् इत्यादिशामि।
26तदा स भूतश्चीत्शब्दं कृत्वा तमापीड्य बहिर्जजाम, ततो बालको मृतकल्पो बभूव तस्मादयं मृतइत्यनेके कथयामासुः।
27किन्तु करं धृत्वा यीशुनोत्थापितः स उत्तस्थौ।
28अथ यीशौ गृहं प्रविष्टे शिष्या गुप्तं तं पप्रच्छुः, वयमेनं भूतं त्याजयितुं कुतो न शक्ताः?
29स उवाच, प्रार्थनोपवासौ विना केनाप्यन्येन कर्म्मणा भूतमीदृशं त्याजयितुं न शक्यं।
30अनन्तरं स तत्स्थानादित्वा गालील्मध्येन ययौ, किन्तु तत् कोपि जानीयादिति स नैच्छत्।
31अपरञ्च स शिष्यानुपदिशन् बभाषे, नरपुत्रो नरहस्तेषु समर्पयिष्यते ते च तं हनिष्यन्ति तैस्तस्मिन् हते तृतीयदिने स उत्थास्यतीति।
32किन्तु तत्कथां ते नाबुध्यन्त प्रष्टुञ्च बिभ्यः।

Read मार्कः 9मार्कः 9
Compare मार्कः 9:2-32मार्कः 9:2-32