2ततः पितरे यिरूशालम्नगरं गतवति त्वक्छेदिनो लोकास्तेन सह विवदमाना अवदन्,
3त्वम् अत्वक्छेदिलोकानां गृहं गत्वा तैः सार्द्धं भुक्तवान्।
4ततः पितर आदितः क्रमशस्तत्कार्य्यस्य सर्व्ववृत्तान्तमाख्यातुम् आरब्धवान्।
5याफोनगर एकदाहं प्रार्थयमानो मूर्च्छितः सन् दर्शनेन चतुर्षु कोणेषु लम्बनमानं वृहद्वस्त्रमिव पात्रमेकम् आकाशदवरुह्य मन्निकटम् आगच्छद् अपश्यम्।
6पश्चात् तद् अनन्यदृष्ट्या दृष्ट्वा विविच्य तस्य मध्ये नानाप्रकारान् ग्राम्यवन्यपशून् उरोगामिखेचरांश्च दृष्टवान्;
7हे पितर त्वमुत्थाय गत्वा भुंक्ष्व मां सम्बोध्य कथयन्तं शब्दमेकं श्रुतवांश्च।
8ततोहं प्रत्यवदं, हे प्रभो नेत्थं भवतु, यतः किञ्चन निषिद्धम् अशुचि द्रव्यं वा मम मुखमध्यं कदापि न प्राविशत्।
9अपरम् ईश्वरो यत् शुचि कृतवान् तन्निषिद्धं न जानीहि द्वि र्माम्प्रतीदृशी विहायसीया वाणी जाता।
10त्रिरित्थं सति तत् सर्व्वं पुनराकाशम् आकृष्टं।
11पश्चात् कैसरियानगरात् त्रयो जना मन्निकटं प्रेषिता यत्र निवेशने स्थितोहं तस्मिन् समये तत्रोपातिष्ठन्।
12तदा निःसन्देहं तैः सार्द्धं यातुम् आत्मा मामादिष्टवान्; ततः परं मया सहैतेषु षड्भ्रातृषु गतेषु वयं तस्य मनुजस्य गृहं प्राविशाम।
13सोस्माकं निकटे कथामेताम् अकथयत् एकदा दूत एकः प्रत्यक्षीभूय मम गृहमध्ये तिष्टन् मामित्याज्ञापितवान्, याफोनगरं प्रति लोकान् प्रहित्य पितरनाम्ना विख्यातं शिमोनम् आहूयय;