6तस्माद् यीशुस्तैः सह गत्वा निवेशनस्य समीपं प्राप, तदा स शतसेनापति र्वक्ष्यमाणवाक्यं तं वक्तुं बन्धून् प्राहिणोत्। हे प्रभो स्वयं श्रमो न कर्त्तव्यो यद् भवता मद्गेहमध्ये पादार्पणं क्रियेत तदप्यहं नार्हामि,
7किञ्चाहं भवत्समीपं यातुमपि नात्मानं योग्यं बुद्धवान्, ततो भवान् वाक्यमात्रं वदतु तेनैव मम दासः स्वस्थो भविष्यति।
8यस्माद् अहं पराधीनोपि ममाधीना याः सेनाः सन्ति तासाम् एकजनं प्रति याहीति मया प्रोक्ते स याति; तदन्यं प्रति आयाहीति प्रोक्ते स आयाति; तथा निजदासं प्रति एतत् कुर्व्विति प्रोक्ते स तदेव करोति।
9यीशुरिदं वाक्यं श्रुत्वा विस्मयं ययौ, मुखं परावर्त्य पश्चाद्वर्त्तिनो लोकान् बभाषे च, युष्मानहं वदामि इस्रायेलो वंशमध्येपि विश्वासमीदृशं न प्राप्नवं।
10ततस्ते प्रेषिता गृहं गत्वा तं पीडितं दासं स्वस्थं ददृशुः।
11परेऽहनि स नायीनाख्यं नगरं जगाम तस्यानेके शिष्या अन्ये च लोकास्तेन सार्द्धं ययुः।
12तेषु तन्नगरस्य द्वारसन्निधिं प्राप्तेषु कियन्तो लोका एकं मृतमनुजं वहन्तो नगरस्य बहिर्यान्ति, स तन्मातुरेकपुत्रस्तन्माता च विधवा; तया सार्द्धं तन्नगरीया बहवो लोका आसन्।
13प्रभुस्तां विलोक्य सानुकम्पः कथयामास, मा रोदीः। स समीपमित्वा खट्वां पस्पर्श तस्माद् वाहकाः स्थगितास्तम्युः;
14तदा स उवाच हे युवमनुष्य त्वमुत्तिष्ठ, त्वामहम् आज्ञापयामि।
15तस्मात् स मृतो जनस्तत्क्षणमुत्थाय कथां प्रकथितः; ततो यीशुस्तस्य मातरि तं समर्पयामास।
16तस्मात् सर्व्वे लोकाः शशङ्किरे; एको महाभविष्यद्वादी मध्येऽस्माकम् समुदैत्, ईश्वरश्च स्वलोकानन्वगृह्लात् कथामिमां कथयित्वा ईश्वरं धन्यं जगदुः।
17ततः परं समस्तं यिहूदादेशं तस्य चतुर्दिक्स्थदेशञ्च तस्यैतत्कीर्त्ति र्व्यानशे।
18ततः परं योहनः शिष्येषु तं तद्वृत्तान्तं ज्ञापितवत्सु
19स स्वशिष्याणां द्वौ जनावाहूय यीशुं प्रति वक्ष्यमाणं वाक्यं वक्तुं प्रेषयामास, यस्यागमनम् अपेक्ष्य तिष्ठामो वयं किं स एव जनस्त्वं? किं वयमन्यमपेक्ष्य स्थास्यामः?