19त्वं कः? इति वाक्यं प्रेष्टुं यदा यिहूदीयलोका याजकान् लेविलोकांश्च यिरूशालमो योहनः समीपे प्रेषयामासुः,
20तदा स स्वीकृतवान् नापह्नूतवान् नाहम् अभिषिक्त इत्यङ्गीकृतवान्।
21तदा तेऽपृच्छन् तर्हि को भवान्? किं एलियः? सोवदत् न; ततस्तेऽपृच्छन् तर्हि भवान् स भविष्यद्वादी? सोवदत् नाहं सः।
22तदा तेऽपृच्छन् तर्हि भवान् कः? वयं गत्वा प्रेरकान् त्वयि किं वक्ष्यामः? स्वस्मिन् किं वदसि?
23तदा सोवदत्। परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। इतीदं प्रान्तरे वाक्यं वदतः कस्यचिद्रवः। कथामिमां यस्मिन् यिशयियो भविष्यद्वादी लिखितवान् सोहम्।
24ये प्रेषितास्ते फिरूशिलोकाः।
25तदा तेऽपृच्छन् यदि नाभिषिक्तोसि एलियोसि न स भविष्यद्वाद्यपि नासि च, तर्हि लोकान् मज्जयसि कुतः?
26ततो योहन् प्रत्यवोचत्, तोयेऽहं मज्जयामीति सत्यं किन्तु यं यूयं न जानीथ तादृश एको जनो युष्माकं मध्य उपतिष्ठति।
27स मत्पश्चाद् आगतोपि मत्पूर्व्वं वर्त्तमान आसीत् तस्य पादुकाबन्धनं मोचयितुमपि नाहं योग्योस्मि।
28यर्द्दननद्याः पारस्थबैथबारायां यस्मिन्स्थाने योहनमज्जयत् तस्मिन स्थाने सर्व्वमेतद् अघटत।
29परेऽहनि योहन् स्वनिकटमागच्छन्तं यिशुं विलोक्य प्रावोचत् जगतः पापमोचकम् ईश्वरस्य मेषशावकं पश्यत।
30यो मम पश्चादागमिष्यति स मत्तो गुरुतरः, यतो हेतोर्मत्पूर्व्वं सोऽवर्त्तत यस्मिन्नहं कथामिमां कथितवान् स एवायं।
31अपरं नाहमेनं प्रत्यभिज्ञातवान् किन्तु इस्रायेल्लोका एनं यथा परिचिन्वन्ति तदभिप्रायेणाहं जले मज्जयितुमागच्छम्।
32पुनश्च योहनपरमेकं प्रमाणं दत्वा कथितवान् विहायसः कपोतवद् अवतरन्तमात्मानम् अस्योपर्य्यवतिष्ठन्तं च दृष्टवानहम्।
33नाहमेनं प्रत्यभिज्ञातवान् इति सत्यं किन्तु यो जले मज्जयितुं मां प्रैरयत् स एवेमां कथामकथयत् यस्योपर्य्यात्मानम् अवतरन्तम् अवतिष्ठन्तञ्च द्रक्षयसि सएव पवित्रे आत्मनि मज्जयिष्यति।
34अवस्तन्निरीक्ष्यायम् ईश्वरस्य तनय इति प्रमाणं ददामि।
35परेऽहनि योहन् द्वाभ्यां शिष्याभ्यां सार्द्धें तिष्ठन्
36यिशुं गच्छन्तं विलोक्य गदितवान्, ईश्वरस्य मेषशावकं पश्यतं।
37इमां कथां श्रुत्वा द्वौ शिष्यौ यीशोः पश्चाद् ईयतुः।