Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - मार्कः - मार्कः 4

मार्कः 4:24-34

Help us?
Click on verse(s) to share them!
24अपरमपि कथितवान् यूयं यद् यद् वाक्यं शृणुथ तत्र सावधाना भवत, यतो यूयं येन परिमाणेन परिमाथ तेनैव परिमाणेन युष्मदर्थमपि परिमास्यते; श्रोतारो यूयं युष्मभ्यमधिकं दास्यते।
25यस्याश्रये वर्द्धते तस्मै अपरमपि दास्यते, किन्तु यस्याश्रये न वर्द्धते तस्य यत् किञ्चिदस्ति तदपि तस्मान् नेष्यते।
26अनन्तरं स कथितवान् एको लोकः क्षेत्रे बीजान्युप्त्वा
27जागरणनिद्राभ्यां दिवानिशं गमयति, परन्तु तद्वीजं तस्याज्ञातरूपेणाङ्कुरयति वर्द्धते च;
28यतोहेतोः प्रथमतः पत्राणि ततः परं कणिशानि तत्पश्चात् कणिशपूर्णानि शस्यानि भूमिः स्वयमुत्पादयति;
29किन्तु फलेषु पक्केषु शस्यच्छेदनकालं ज्ञात्वा स तत्क्षणं शस्यानि छिनत्ति, अनेन तुल्यमीश्वरराज्यं।
30पुनः सोऽकथयद् ईश्वरराज्यं केन समं? केन वस्तुना सह वा तदुपमास्यामि?
31तत् सर्षपैकेन तुल्यं यतो मृदि वपनकाले सर्षपबीजं सर्व्वपृथिवीस्थबीजात् क्षुद्रं
32किन्तु वपनात् परम् अङ्कुरयित्वा सर्व्वशाकाद् बृहद् भवति, तस्य बृहत्यः शाखाश्च जायन्ते ततस्तच्छायां पक्षिण आश्रयन्ते।
33इत्थं तेषां बोधानुरूपं सोऽनेकदृष्टान्तैस्तानुपदिष्टवान्,
34दृष्टान्तं विना कामपि कथां तेभ्यो न कथितवान् पश्चान् निर्जने स शिष्यान् सर्व्वदृष्टान्तार्थं बोधितवान्।

Read मार्कः 4मार्कः 4
Compare मार्कः 4:24-34मार्कः 4:24-34