Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - लूकः - लूकः 9

लूकः 9:16-37

Help us?
Click on verse(s) to share them!
16ततः स तान् पञ्च पूपान् मीनद्वयञ्च गृहीत्वा स्वर्गं विलोक्येश्वरगुणान् कीर्त्तयाञ्चक्रे भङ्क्ता च लोकेभ्यः परिवेषणार्थं शिष्येषु समर्पयाम्बभूव।
17ततः सर्व्वे भुक्त्वा तृप्तिं गता अवशिष्टानाञ्च द्वादश डल्लकान् संजगृहुः।
18अथैकदा निर्जने शिष्यैः सह प्रार्थनाकाले तान् पप्रच्छ, लोका मां कं वदन्ति?
19ततस्ते प्राचुः, त्वां योहन्मज्जकं वदन्ति; केचित् त्वाम् एलियं वदन्ति, पूर्व्वकालिकः कश्चिद् भविष्यद्वादी श्मशानाद् उदतिष्ठद् इत्यपि केचिद् वदन्ति।
20तदा स उवाच, यूयं मां कं वदथ? ततः पितर उक्तवान् त्वम् ईश्वराभिषिक्तः पुरुषः।
21तदा स तान् दृढमादिदेश, कथामेतां कस्मैचिदपि मा कथयत।
22स पुनरुवाच, मनुष्यपुत्रेण वहुयातना भोक्तव्याः प्राचीनलोकैः प्रधानयाजकैरध्यापकैश्च सोवज्ञाय हन्तव्यः किन्तु तृतीयदिवसे श्मशानात् तेनोत्थातव्यम्।
23अपरं स सर्व्वानुवाच, कश्चिद् यदि मम पश्चाद् गन्तुं वाञ्छति तर्हि स स्वं दाम्यतु, दिने दिने क्रुशं गृहीत्वा च मम पश्चादागच्छतु।
24यतो यः कश्चित् स्वप्राणान् रिरक्षिषति स तान् हारयिष्यति, यः कश्चिन् मदर्थं प्राणान् हारयिष्यति स तान् रक्षिष्यति।
25कश्चिद् यदि सर्व्वं जगत् प्राप्नोति किन्तु स्वप्राणान् हारयति स्वयं विनश्यति च तर्हि तस्य को लाभः?
26पुन र्यः कश्चिन् मां मम वाक्यं वा लज्जास्पदं जानाति मनुष्यपुत्रो यदा स्वस्य पितुश्च पवित्राणां दूतानाञ्च तेजोभिः परिवेष्टित आगमिष्यति तदा सोपि तं लज्जास्पदं ज्ञास्यति।
27किन्तु युष्मानहं यथार्थं वदामि, ईश्वरीयराजत्वं न दृष्टवा मृत्युं नास्वादिष्यन्ते, एतादृशाः कियन्तो लोका अत्र स्थनेऽपि दण्डायमानाः सन्ति।
28एतदाख्यानकथनात् परं प्रायेणाष्टसु दिनेषु गतेषु स पितरं योहनं याकूबञ्च गृहीत्वा प्रार्थयितुं पर्व्वतमेकं समारुरोह।
29अथ तस्य प्रार्थनकाले तस्य मुखाकृतिरन्यरूपा जाता, तदीयं वस्त्रमुज्ज्वलशुक्लं जातं।
30अपरञ्च मूसा एलियश्चोभौ तेजस्विनौ दृष्टौ
31तौ तेन यिरूशालम्पुरे यो मृत्युः साधिष्यते तदीयां कथां तेन सार्द्धं कथयितुम् आरेभाते।
32तदा पितरादयः स्वस्य सङ्गिनो निद्रयाकृष्टा आसन् किन्तु जागरित्वा तस्य तेजस्तेन सार्द्धम् उत्तिष्ठन्तौ जनौ च ददृशुः।
33अथ तयोरुभयो र्गमनकाले पितरो यीशुं बभाषे, हे गुरोऽस्माकं स्थानेऽस्मिन् स्थितिः शुभा, तत एका त्वदर्था, एका मूसार्था, एका एलियार्था, इति तिस्रः कुट्योस्माभि र्निर्म्मीयन्तां, इमां कथां स न विविच्य कथयामास।
34अपरञ्च तद्वाक्यवदनकाले पयोद एक आगत्य तेषामुपरि छायां चकार, ततस्तन्मध्ये तयोः प्रवेशात् ते शशङ्किरे।
35तदा तस्मात् पयोदाद् इयमाकाशीया वाणी निर्जगाम, ममायं प्रियः पुत्र एतस्य कथायां मनो निधत्त।
36इति शब्दे जाते ते यीशुमेकाकिनं ददृशुः किन्तु ते तदानीं तस्य दर्शनस्य वाचमेकामपि नोक्त्वा मनःसु स्थापयामासुः।
37परेऽहनि तेषु तस्माच्छैलाद् अवरूढेषु तं साक्षात् कर्त्तुं बहवो लोका आजग्मुः।

Read लूकः 9लूकः 9
Compare लूकः 9:16-37लूकः 9:16-37