Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - लूकः - लूकः 1

लूकः 1:3-11

Help us?
Click on verse(s) to share them!
3अतएव हे महामहिमथियफिल् त्वं या याः कथा अशिक्ष्यथास्तासां दृढप्रमाणानि यथा प्राप्नोषि
4तदर्थं प्रथममारभ्य तानि सर्व्वाणि ज्ञात्वाहमपि अनुक्रमात् सर्व्ववृत्तान्तान् तुभ्यं लेखितुं मतिमकार्षम्।
5यिहूदादेशीयहेरोद्नामके राजत्वं कुर्व्वति अबीययाजकस्य पर्य्यायाधिकारी सिखरियनामक एको याजको हारोणवंशोद्भवा इलीशेवाख्या
6तस्य जाया द्वाविमौ निर्दोषौ प्रभोः सर्व्वाज्ञा व्यवस्थाश्च संमन्य ईश्वरदृष्टौ धार्म्मिकावास्ताम्।
7तयोः सन्तान एकोपि नासीत्, यत इलीशेवा बन्ध्या तौ द्वावेव वृद्धावभवताम्।
8यदा स्वपर्य्यानुक्रमेण सिखरिय ईश्वास्य समक्षं याजकीयं कर्म्म करोति
9तदा यज्ञस्य दिनपरिपाय्या परमेश्वरस्य मन्दिरे प्रवेशकाले धूपज्वालनं कर्म्म तस्य करणीयमासीत्।
10तद्धूपज्वालनकाले लोकनिवहे प्रार्थनां कर्तुं बहिस्तिष्ठति
11सति सिखरियो यस्यां वेद्यां धूपं ज्वालयति तद्दक्षिणपार्श्वे परमेश्वरस्य दूत एक उपस्थितो दर्शनं ददौ।

Read लूकः 1लूकः 1
Compare लूकः 1:3-11लूकः 1:3-11