Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - योहनः - योहनः 5

योहनः 5:40-47

Help us?
Click on verse(s) to share them!
40तथापि यूयं परमायुःप्राप्तये मम संनिधिम् न जिगमिषथ।
41अहं मानुषेभ्यः सत्कारं न गृह्लामि।
42अहं युष्मान् जानामि; युष्माकमन्तर ईश्वरप्रेम नास्ति।
43अहं निजपितु र्नाम्नागतोस्मि तथापि मां न गृह्लीथ किन्तु कश्चिद् यदि स्वनाम्ना समागमिष्यति तर्हि तं ग्रहीष्यथ।
44यूयम् ईश्वरात् सत्कारं न चिष्टत्वा केवलं परस्परं सत्कारम् चेद् आदध्व्वे तर्हि कथं विश्वसितुं शक्नुथ?
45पुतुः समीपेऽहं युष्मान् अपवदिष्यामीति मा चिन्तयत यस्मिन् , यस्मिन् युष्माकं विश्वसः सएव मूसा युष्मान् अपवदति।
46यदि यूयं तस्मिन् व्यश्वसिष्यत तर्हि मय्यपि व्यश्वसिष्यत, यत् स मयि लिखितवान्।
47ततो यदि तेन लिखितवानि न प्रतिथ तर्हि मम वाक्यानि कथं प्रत्येष्यथ?

Read योहनः 5योहनः 5
Compare योहनः 5:40-47योहनः 5:40-47