22सोरसीदोनदेशयो र्लोकेभ्यो हेरोदि युयुत्सौ सति ते सर्व्व एकमन्त्रणाः सन्तस्तस्य समीप उपस्थाय ल्वास्तनामानं तस्य वस्त्रगृहाधीशं सहायं कृत्वा हेरोदा सार्द्धं सन्धिं प्रार्थयन्त यतस्तस्य राज्ञो देशेन तेषां देशीयानां भरणम् अभवत्ं
23अतः कुत्रचिन् निरुपितदिने हेरोद् राजकीयं परिच्छदं परिधाय सिंहासने समुपविश्य तान् प्रति कथाम् उक्तवान्।
24ततो लोका उच्चैःकारं प्रत्यवदन्, एष मनुजरवो न हि, ईश्वरीयरवः।
25तदा हेरोद् ईश्वरस्य सम्मानं नाकरोत्; तस्माद्धेतोः परमेश्वरस्य दूतो हठात् तं प्राहरत् तेनैव स कीटैः क्षीणः सन् प्राणान् अजहात्। किन्त्वीश्वरस्य कथा देशं व्याप्य प्रबलाभवत्। ततः परं बर्णब्बाशौलौ यस्य कर्म्मणो भारं प्राप्नुतां ताभ्यां तस्मिन् सम्पादिते सति मार्कनाम्ना विख्यातो यो योहन् तं सङ्गिनं कृत्वा यिरूशालम्नगरात् प्रत्यागतौ।