16मम नामनिमित्तञ्च तेन कियान् महान् क्लेशो भोक्तव्य एतत् तं दर्शयिष्यामि।
17ततो ऽननियो गत्वा गृहं प्रविश्य तस्य गात्रे हस्तार्प्रणं कृत्वा कथितवान्, हे भ्रातः शौल त्वं यथा दृष्टिं प्राप्नोषि पवित्रेणात्मना परिपूर्णो भवसि च, तदर्थं तवागमनकाले यः प्रभुयीशुस्तुभ्यं दर्शनम् अददात् स मां प्रेषितवान्।
18इत्युक्तमात्रे तस्य चक्षुर्भ्याम् मीनशल्कवद् वस्तुनि निर्गते तत्क्षणात् स प्रसन्नचक्षु र्भूत्वा प्रोत्थाय मज्जितोऽभवत् भुक्त्वा पीत्वा सबलोभवच्च।
19ततः परं शौलः शिष्यैः सह कतिपयदिवसान् तस्मिन् दम्मेषकनगरे स्थित्वाऽविलम्बं
20सर्व्वभजनभवनानि गत्वा यीशुरीश्वरस्य पुत्र इमां कथां प्राचारयत्।
21तस्मात् सर्व्वे श्रोतारश्चमत्कृत्य कथितवन्तो यो यिरूशालम्नगर एतन्नाम्ना प्रार्थयितृलोकान् विनाशितवान् एवम् एतादृशलोकान् बद्ध्वा प्रधानयाजकनिकटं नयतीत्याशया एतत्स्थानमप्यागच्छत् सएव किमयं न भवति?
22किन्तु शौलः क्रमश उत्साहवान् भूत्वा यीशुरीश्वरेणाभिषिक्तो जन एतस्मिन् प्रमाणं दत्वा दम्मेषक्-निवासियिहूदीयलोकान् निरुत्तरान् अकरोत्।
23इत्थं बहुतिथे काले गते यिहूदीयलोकास्तं हन्तुं मन्त्रयामासुः
24किन्तु शौलस्तेषामेतस्या मन्त्रणाया वार्त्तां प्राप्तवान्। ते तं हन्तुं तु दिवानिशं गुप्ताः सन्तो नगरस्य द्वारेऽतिष्ठन्;