Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - लूकः - लूकः 24

लूकः 24:14-20

Help us?
Click on verse(s) to share them!
14तासां घटनानां कथामकथयतां
15तयोरालापविचारयोः काले यीशुरागत्य ताभ्यां सह जगाम
16किन्तु यथा तौ तं न परिचिनुतस्तदर्थं तयो र्दृष्टिः संरुद्धा।
17स तौ पृष्टवान् युवां विषण्णौ किं विचारयन्तौ गच्छथः?
18ततस्तयोः क्लियपानामा प्रत्युवाच यिरूशालमपुरेऽधुना यान्यघटन्त त्वं केवलविदेशी किं तद्वृत्तान्तं न जानासि?
19स पप्रच्छ का घटनाः? तदा तौ वक्तुमारेभाते यीशुनामा यो नासरतीयो भविष्यद्वादी ईश्वरस्य मानुषाणाञ्च साक्षात् वाक्ये कर्म्मणि च शक्तिमानासीत्
20तम् अस्माकं प्रधानयाजका विचारकाश्च केनापि प्रकारेण क्रुशे विद्ध्वा तस्य प्राणाननाशयन् तदीया घटनाः;

Read लूकः 24लूकः 24
Compare लूकः 24:14-20लूकः 24:14-20