Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - मार्कः - मार्कः 8

मार्कः 8:17-23

Help us?
Click on verse(s) to share them!
17तद् बुद्व्वा यीशुस्तेभ्योऽकथयत् युष्माकं स्थाने पूपाभावात् कुत इत्थं वितर्कयथ? यूयं किमद्यापि किमपि न जानीथ? बोद्धुञ्च न शक्नुथ? यावदद्य किं युष्माकं मनांसि कठिनानि सन्ति?
18सत्सु नेत्रेषु किं न पश्यथ? सत्सु कर्णेषु किं न शृणुथ? न स्मरथ च?
19यदाहं पञ्चपूपान् पञ्चसहस्राणां पुरुषाणां मध्ये भंक्त्वा दत्तवान् तदानीं यूयम् अवशिष्टपूपैः पूर्णान् कति डल्लकान् गृहीतवन्तः? तेऽकथयन् द्वादशडल्लकान्।
20अपरञ्च यदा चतुःसहस्राणां पुरुषाणां मध्ये पूपान् भंक्त्वाददां तदा यूयम् अतिरिक्तपूपानां कति डल्लकान् गृहीतवन्तः? ते कथयामासुः सप्तडल्लकान्।
21तदा स कथितवान् तर्हि यूयम् अधुनापि कुतो बोद्व्वुं न शक्नुथ?
22अनन्तरं तस्मिन् बैत्सैदानगरे प्राप्ते लोका अन्धमेकं नरं तत्समीपमानीय तं स्प्रष्टुं तं प्रार्थयाञ्चक्रिरे।
23तदा तस्यान्धस्य करौ गृहीत्वा नगराद् बहिर्देशं तं नीतवान्; तन्नेत्रे निष्ठीवं दत्त्वा तद्गात्रे हस्तावर्पयित्वा तं पप्रच्छ, किमपि पश्यसि?

Read मार्कः 8मार्कः 8
Compare मार्कः 8:17-23मार्कः 8:17-23