11तदानीं पर्व्वतं निकषा बृहन् वराहव्रजश्चरन्नासीत्।
12तस्माद् भूता विनयेन जगदुः, अमुं वराहव्रजम् आश्रयितुम् अस्मान् प्रहिणु।
13यीशुनानुज्ञातास्तेऽपवित्रभूता बहिर्निर्याय वराहव्रजं प्राविशन् ततः सर्व्वे वराहा वस्तुतस्तु प्रायोद्विसहस्रसंङ्ख्यकाः कटकेन महाजवाद् धावन्तः सिन्धौ प्राणान् जहुः।
14तस्माद् वराहपालकाः पलायमानाः पुरे ग्रामे च तद्वार्त्तं कथयाञ्चक्रुः। तदा लोका घटितं तत्कार्य्यं द्रष्टुं बहिर्जग्मुः
15यीशोः सन्निधिं गत्वा तं भूतग्रस्तम् अर्थाद् बाहिनीभूतग्रस्तं नरं सवस्त्रं सचेतनं समुपविष्टञ्च दृृष्ट्वा बिभ्युः।
16ततो दृष्टतत्कार्य्यलोकास्तस्य भूतग्रस्तनरस्य वराहव्रजस्यापि तां धटनां वर्णयामासुः।
17ततस्ते स्वसीमातो बहिर्गन्तुं यीशुं विनेतुमारेभिरे।
18अथ तस्य नौकारोहणकाले स भूतमुक्तो ना यीशुना सह स्थातुं प्रार्थयते;
19किन्तु स तमननुमत्य कथितवान् त्वं निजात्मीयानां समीपं गृहञ्च गच्छ प्रभुस्त्वयि कृपां कृत्वा यानि कर्म्माणि कृतवान् तानि तान् ज्ञापय।
20अतः स प्रस्थाय यीशुना कृतं तत्सर्व्वाश्चर्य्यं कर्म्म दिकापलिदेशे प्रचारयितुं प्रारब्धवान् ततः सर्व्वे लोका आश्चर्य्यं मेनिरे।
21अनन्तरं यीशौ नावा पुनरन्यपार उत्तीर्णे सिन्धुतटे च तिष्ठति सति तत्समीपे बहुलोकानां समागमोऽभूत्।
22अपरं यायीर् नाम्ना कश्चिद् भजनगृहस्याधिप आगत्य तं दृष्ट्वैव चरणयोः पतित्वा बहु निवेद्य कथितवान्;