28अद्य क्षेत्रे वर्त्तमानं श्वश्चूल्ल्यां क्षेप्स्यमानं यत् तृणं, तस्मै यदीश्वर इत्थं भूषयति तर्हि हे अल्पप्रत्ययिनो युष्मान किं न परिधापयिष्यति?
29अतएव किं खादिष्यामः? किं परिधास्यामः? एतदर्थं मा चेष्टध्वं मा संदिग्ध्वञ्च।
30जगतो देवार्च्चका एतानि सर्व्वाणि चेष्टनते; एषु वस्तुषु युष्माकं प्रयोजनमास्ते इति युष्माकं पिता जानाति।
31अतएवेश्वरस्य राज्यार्थं सचेष्टा भवत तथा कृते सर्व्वाण्येतानि द्रव्याणि युष्मभ्यं प्रदायिष्यन्ते।
32हे क्षुद्रमेषव्रज यूयं मा भैष्ट युष्मभ्यं राज्यं दातुं युष्माकं पितुः सम्मतिरस्ति।
33अतएव युष्माकं या या सम्पत्तिरस्ति तां तां विक्रीय वितरत, यत् स्थानं चौरा नागच्छन्ति, कीटाश्च न क्षाययन्ति तादृशे स्वर्गे निजार्थम् अजरे सम्पुटके ऽक्षयं धनं सञ्चिनुत च;
34यतो यत्र युष्माकं धनं वर्त्तते तत्रेव युष्माकं मनः।
35अपरञ्च यूयं प्रदीपं ज्वालयित्वा बद्धकटयस्तिष्ठत;
36प्रभु र्विवाहादागत्य यदैव द्वारमाहन्ति तदैव द्वारं मोचयितुं यथा भृत्या अपेक्ष्य तिष्ठन्ति तथा यूयमपि तिष्ठत।
37यतः प्रभुरागत्य यान् दासान् सचेतनान् तिष्ठतो द्रक्ष्यति तएव धन्याः; अहं युष्मान् यथार्थं वदामि प्रभुस्तान् भोजनार्थम् उपवेश्य स्वयं बद्धकटिः समीपमेत्य परिवेषयिष्यति।
38यदि द्वितीये तृतीये वा प्रहरे समागत्य तथैव पश्यति, तर्हि तएव दासा धन्याः।
39अपरञ्च कस्मिन् क्षणे चौरा आगमिष्यन्ति इति यदि गृहपति र्ज्ञातुं शक्नोति तदावश्यं जाग्रन् निजगृहे सन्धिं कर्त्तयितुं वारयति यूयमेतद् वित्त।
40अतएव यूयमपि सज्जमानास्तिष्ठत यतो यस्मिन् क्षणे तं नाप्रेक्षध्वे तस्मिन्नेव क्षणे मनुष्यपुत्र आगमिष्यति।
41तदा पितरः पप्रच्छ, हे प्रभो भवान् किमस्मान् उद्दिश्य किं सर्व्वान् उद्दिश्य दृष्टान्तकथामिमां वदति?
42ततः प्रभुः प्रोवाच, प्रभुः समुचितकाले निजपरिवारार्थं भोज्यपरिवेषणाय यं तत्पदे नियोक्ष्यति तादृशो विश्वास्यो बोद्धा कर्म्माधीशः कोस्ति?
43प्रभुरागत्य यम् एतादृशे कर्म्मणि प्रवृत्तं द्रक्ष्यति सएव दासो धन्यः।
44अहं युष्मान् यथार्थं वदामि स तं निजसर्व्वस्वस्याधिपतिं करिष्यति।
45किन्तु प्रभुर्विलम्बेनागमिष्यति, इति विचिन्त्य स दासो यदि तदन्यदासीदासान् प्रहर्त्तुम् भोक्तुं पातुं मदितुञ्च प्रारभते,
46तर्हि यदा प्रभुं नापेक्षिष्यते यस्मिन् क्षणे सोऽचेतनश्च स्थास्यति तस्मिन्नेव क्षणे तस्य प्रभुरागत्य तं पदभ्रष्टं कृत्वा विश्वासहीनैः सह तस्य अंशं निरूपयिष्यति।
47यो दासः प्रभेाराज्ञां ज्ञात्वापि सज्जितो न तिष्ठति तदाज्ञानुसारेण च कार्य्यं न करोति सोनेकान् प्रहारान् प्राप्स्यति;