6ततः स शीघ्रमवरुह्य साह्लादं तं जग्राह।
7तद् दृष्ट्वा सर्व्वे विवदमाना वक्तुमारेभिरे, सोतिथित्वेन दुष्टलोकगृहं गच्छति।
8किन्तु सक्केयो दण्डायमानो वक्तुमारेभे, हे प्रभो पश्य मम या सम्पत्तिरस्ति तदर्द्धं दरिद्रेभ्यो ददे, अपरम् अन्यायं कृत्वा कस्मादपि यदि कदापि किञ्चित् मया गृहीतं तर्हि तच्चतुर्गुणं ददामि।
9तदा यीशुस्तमुक्तवान् अयमपि इब्राहीमः सन्तानोऽतः कारणाद् अद्यास्य गृहे त्राणमुपस्थितं।
10यद् हारितं तत् मृगयितुं रक्षितुञ्च मनुष्यपुत्र आगतवान्।