Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - लूकः - लूकः 19

लूकः 19:18-40

Help us?
Click on verse(s) to share them!
18द्वितीय आगत्य कथितवान्, हे प्रभो तवैकया मुद्रया पञ्चमुद्रा लब्धाः।
19ततः स उवाच, त्वं पञ्चानां नगराणामधिपति र्भव।
20ततोन्य आगत्य कथयामास, हे प्रभो पश्य तव या मुद्रा अहं वस्त्रे बद्ध्वास्थापयं सेयं।
21त्वं कृपणो यन्नास्थापयस्तदपि गृह्लासि, यन्नावपस्तदेव च छिनत्सि ततोहं त्वत्तो भीतः।
22तदा स जगाद, रे दुष्टदास तव वाक्येन त्वां दोषिणं करिष्यामि, यदहं नास्थापयं तदेव गृह्लामि, यदहं नावपञ्च तदेव छिनद्मि, एतादृशः कृपणोहमिति यदि त्वं जानासि,
23तर्हि मम मुद्रा बणिजां निकटे कुतो नास्थापयः? तया कृतेऽहम् आगत्य कुसीदेन सार्द्धं निजमुद्रा अप्राप्स्यम्।
24पश्चात् स समीपस्थान् जनान् आज्ञापयत् अस्मात् मुद्रा आनीय यस्य दशमुद्राः सन्ति तस्मै दत्त।
25ते प्रोचुः प्रभोऽस्य दशमुद्राः सन्ति।
26युष्मानहं वदामि यस्याश्रये वद्धते ऽधिकं तस्मै दायिष्यते, किन्तु यस्याश्रये न वर्द्धते तस्य यद्यदस्ति तदपि तस्मान् नायिष्यते।
27किन्तु ममाधिपतित्वस्य वशत्वे स्थातुम् असम्मन्यमाना ये मम रिपवस्तानानीय मम समक्षं संहरत।
28इत्युपदेशकथां कथयित्वा सोग्रगः सन् यिरूशालमपुरं ययौ।
29ततो बैत्फगीबैथनीयाग्रामयोः समीपे जैतुनाद्रेरन्तिकम् इत्वा शिष्यद्वयम् इत्युक्त्वा प्रेषयामास,
30युवाममुं सम्मुखस्थग्रामं प्रविश्यैव यं कोपि मानुषः कदापि नारोहत् तं गर्द्दभशावकं बद्धं द्रक्ष्यथस्तं मोचयित्वानयतं।
31तत्र कुतो मोचयथः? इति चेत् कोपि वक्ष्यति तर्हि वक्ष्यथः प्रभेारत्र प्रयोजनम् आस्ते।
32तदा तौ प्ररितौ गत्वा तत्कथाानुसारेण सर्व्वं प्राप्तौ।
33गर्दभशावकमोचनकाले तत्वामिन ऊचुः, गर्दभशावकं कुतो मोचयथः?
34तावूचतुः प्रभोरत्र प्रयोजनम् आस्ते।
35पश्चात् तौ तं गर्दभशावकं यीशोरन्तिकमानीय तत्पृष्ठे निजवसनानि पातयित्वा तदुपरि यीशुमारोहयामासतुः।
36अथ यात्राकाले लोकाः पथि स्ववस्त्राणि पातयितुम् आरेभिरे।
37अपरं जैतुनाद्रेरुपत्यकाम् इत्वा शिष्यसंघः पूर्व्वदृष्टानि महाकर्म्माणि स्मृत्वा,
38यो राजा प्रभो र्नाम्नायाति स धन्यः स्वर्गे कुशलं सर्व्वोच्चे जयध्वनि र्भवतु, कथामेतां कथयित्वा सानन्दम् उचैरीश्वरं धन्यं वक्तुमारेभे।
39तदा लोकारण्यमध्यस्थाः कियन्तः फिरूशिनस्तत् श्रुत्वा यीशुं प्रोचुः, हे उपदेशक स्वशिष्यान् तर्जय।
40स उवाच, युष्मानहं वदामि यद्यमी नीरवास्तिष्ठन्ति तर्हि पाषाणा उचैः कथाः कथयिष्यन्ति।

Read लूकः 19लूकः 19
Compare लूकः 19:18-40लूकः 19:18-40