Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - लूकः - लूकः 14

लूकः 14:28-34

Help us?
Click on verse(s) to share them!
28दुर्गनिर्म्माणे कतिव्ययो भविष्यति, तथा तस्य समाप्तिकरणार्थं सम्पत्तिरस्ति न वा, प्रथममुपविश्य एतन्न गणयति, युष्माकं मध्य एतादृशः कोस्ति?
29नोचेद् भित्तिं कृत्वा शेषे यदि समापयितुं न शक्ष्यति,
30तर्हि मानुषोयं निचेतुम् आरभत समापयितुं नाशक्नोत्, इति व्याहृत्य सर्व्वे तमुपहसिष्यन्ति।
31अपरञ्च भिन्नभूपतिना सह युद्धं कर्त्तुम् उद्यम्य दशसहस्राणि सैन्यानि गृहीत्वा विंशतिसहस्रेः सैन्यैः सहितस्य समीपवासिनः सम्मुखं यातुं शक्ष्यामि न वेति प्रथमं उपविश्य न विचारयति एतादृशो भूमिपतिः कः?
32यदि न शक्नोति तर्हि रिपावतिदूरे तिष्ठति सति निजदूतं प्रेष्य सन्धिं कर्त्तुं प्रार्थयेत।
33तद्वद् युष्माकं मध्ये यः कश्चिन् मदर्थं सर्व्वस्वं हातुं न शक्नोति स मम शिष्यो भवितुं न शक्ष्यति।
34लवणम् उत्तमम् इति सत्यं, किन्तु यदि लवणस्य लवणत्वम् अपगच्छति तर्हि तत् कथं स्वादुयुक्तं भविष्यति?

Read लूकः 14लूकः 14
Compare लूकः 14:28-34लूकः 14:28-34