21हे अधुना क्षुधितलोका यूयं धन्या यतो यूयं तर्प्स्यथ; हे इह रोदिनो जना यूयं धन्या यतो यूयं हसिष्यथ।
22यदा लोका मनुष्यसूनो र्नामहेतो र्युष्मान् ऋृतीयिष्यन्ते पृथक् कृत्वा निन्दिष्यन्ति, अधमानिव युष्मान् स्वसमीपाद् दूरीकरिष्यन्ति च तदा यूयं धन्याः।
23स्वर्गे युष्माकं यथेष्टं फलं भविष्यति, एतदर्थं तस्मिन् दिने प्रोल्लसत आनन्देन नृत्यत च, तेषां पूर्व्वपुरुषाश्च भविष्यद्वादिनः प्रति तथैव व्यवाहरन्।
24किन्तु हा हा धनवन्तो यूयं सुखं प्राप्नुत। हन्त परितृप्ता यूयं क्षुधिता भविष्यथ;
25इह हसन्तो यूयं वत युष्माभिः शोचितव्यं रोदितव्यञ्च।
26सर्व्वैलाकै र्युष्माकं सुख्यातौ कृतायां युष्माकं दुर्गति र्भविष्यति युष्माकं पूर्व्वपुरुषा मृषाभविष्यद्वादिनः प्रति तद्वत् कृतवन्तः।
27हे श्रोतारो युष्मभ्यमहं कथयामि, यूयं शत्रुषु प्रीयध्वं ये च युष्मान् द्विषन्ति तेषामपि हितं कुरुत।
28ये च युष्मान् शपन्ति तेभ्य आशिषं दत्त ये च युष्मान् अवमन्यन्ते तेषां मङ्गलं प्रार्थयध्वं।
29यदि कश्चित् तव कपोले चपेटाघातं करोति तर्हि तं प्रति कपोलम् अन्यं परावर्त्त्य सम्मुखीकुरु पुनश्च यदि कश्चित् तव गात्रीयवस्त्रं हरति तर्हि तं परिधेयवस्त्रम् अपि ग्रहीतुं मा वारय।
30यस्त्वां याचते तस्मै देहि, यश्च तव सम्पत्तिं हरति तं मा याचस्व।
31परेभ्यः स्वान् प्रति यथाचरणम् अपेक्षध्वे परान् प्रति यूयमपि तथाचरत।