Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - लूकः - लूकः 12

लूकः 12:10-17

Help us?
Click on verse(s) to share them!
10अन्यच्च यः कश्चिन् मनुजसुतस्य निन्दाभावेन काञ्चित् कथां कथयति तस्य तत्पापस्य मोचनं भविष्यति किन्तु यदि कश्चित् पवित्रम् आत्मानं निन्दति तर्हि तस्य तत्पापस्य मोचनं न भविष्यति।
11यदा लोका युष्मान् भजनगेहं विचारकर्तृराज्यकर्तृणां सम्मुखञ्च नेष्यन्ति तदा केन प्रकारेण किमुत्तरं वदिष्यथ किं कथयिष्यथ चेत्यत्र मा चिन्तयत;
12यतो युष्माभिर्यद् यद् वक्तव्यं तत् तस्मिन् समयएव पवित्र आत्मा युष्मान् शिक्षयिष्यति।
13ततः परं जनतामध्यस्थः कश्चिज्जनस्तं जगाद हे गुरो मया सह पैतृकं धनं विभक्तुं मम भ्रातरमाज्ञापयतु भवान्।
14किन्तु स तमवदत् हे मनुष्य युवयो र्विचारं विभागञ्च कर्त्तुं मां को नियुक्तवान्?
15अनन्तरं स लोकानवदत् लोभे सावधानाः सतर्काश्च तिष्ठत, यतो बहुसम्पत्तिप्राप्त्या मनुष्यस्यायु र्न भवति।
16पश्चाद् दृष्टान्तकथामुत्थाप्य कथयामास, एकस्य धनिनो भूमौ बहूनि शस्यानि जातानि।
17ततः स मनसा चिन्तयित्वा कथयाम्बभूव ममैतानि समुत्पन्नानि द्रव्याणि स्थापयितुं स्थानं नास्ति किं करिष्यामि?

Read लूकः 12लूकः 12
Compare लूकः 12:10-17लूकः 12:10-17