27अस्याः कथायाः कथनकाले जनतामध्यस्था काचिन्नारी तमुच्चैःस्वरं प्रोवाच, या योषित् त्वां गर्ब्भेऽधारयत् स्तन्यमपाययच्च सैव धन्या।
28किन्तु सोकथयत् ये परमेश्वरस्य कथां श्रुत्वा तदनुरूपम् आचरन्ति तएव धन्याः।
29ततः परं तस्यान्तिके बहुलोकानां समागमे जाते स वक्तुमारेभे, आधुनिका दुष्टलोकाश्चिह्नं द्रष्टुमिच्छन्ति किन्तु यूनस्भविष्यद्वादिनश्चिह्नं विनान्यत् किञ्चिच्चिह्नं तान् न दर्शयिष्यते।
30यूनस् तु यथा नीनिवीयलोकानां समीपे चिह्नरूपोभवत् तथा विद्यमानलोकानाम् एषां समीपे मनुष्यपुत्रोपि चिह्नरूपो भविष्यति।
31विचारसमये इदानीन्तनलोकानां प्रातिकूल्येन दक्षिणदेशीया राज्ञी प्रोत्थाय तान् दोषिणः करिष्यति, यतः सा राज्ञी सुलेमान उपदेशकथां श्रोतुं पृथिव्याः सीमात आगच्छत् किन्तु पश्यत सुलेमानोपि गुरुतर एको जनोऽस्मिन् स्थाने विद्यते।