Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - रोमिणः - रोमिणः 16

रोमिणः 16:1-17

Help us?
Click on verse(s) to share them!
1किंक्रीयानगरीयधर्म्मसमाजस्य परिचारिका या फैबीनामिकास्माकं धर्म्मभगिनी तस्याः कृतेऽहं युष्मान् निवेदयामि,
2यूयं तां प्रभुमाश्रितां विज्ञाय तस्या आतिथ्यं पवित्रलोकार्हं कुरुध्वं, युष्मत्तस्तस्या य उपकारो भवितुं शक्नोति तं कुरुध्वं, यस्मात् तया बहूनां मम चोपकारः कृतः।
3अपरञ्च ख्रीष्टस्य यीशोः कर्म्मणि मम सहकारिणौ मम प्राणरक्षार्थञ्च स्वप्राणान् पणीकृतवन्तौ यौ प्रिष्किल्लाक्किलौ तौ मम नमस्कारं ज्ञापयध्वं।
4ताभ्याम् उपकाराप्तिः केवलं मया स्वीकर्त्तव्येति नहि भिन्नदेशीयैः सर्व्वधर्म्मसमाजैरपि।
5अपरञ्च तयो र्गृहे स्थितान् धर्म्मसमाजलोकान् मम नमस्कारं ज्ञापयध्वं। तद्वत् आशियादेशे ख्रीष्टस्य पक्षे प्रथमजातफलस्वरूपो य इपेनितनामा मम प्रियबन्धुस्तमपि मम नमस्कारं ज्ञापयध्वं।
6अपरं बहुश्रमेणास्मान् असेवत या मरियम् तामपि नमस्कारं ज्ञापयध्वं।
7अपरञ्च प्रेरितेषु ख्यातकीर्त्ती मदग्रे ख्रीष्टाश्रितौ मम स्वजातीयौ सहबन्दिनौ च यावान्द्रनीकयूनियौ तौ मम नमस्कारं ज्ञापयध्वं।
8तथा प्रभौ मत्प्रियतमम् आम्प्लियमपि मम नमस्कारं ज्ञापयध्वं।
9अपरं ख्रीष्टसेवायां मम सहकारिणम् ऊर्ब्बाणं मम प्रियतमं स्ताखुञ्च मम नमस्कारं ज्ञापयध्वं।
10अपरं ख्रीष्टेन परीक्षितम् आपिल्लिं मम नमस्कारं वदत, आरिष्टबूलस्य परिजनांश्च मम नमस्कारं ज्ञापयध्वं।
11अपरं मम ज्ञातिं हेरोदियोनं मम नमस्कारं वदत, तथा नार्किसस्य परिवाराणां मध्ये ये प्रभुमाश्रितास्तान् मम नमस्कारं वदत।
12अपरं प्रभोः सेवायां परिश्रमकारिण्यौ त्रुफेनात्रुफोषे मम नमस्कारं वदत, तथा प्रभोः सेवायाम् अत्यन्तं परिश्रमकारिणी या प्रिया पर्षिस्तां नमस्कारं ज्ञापयध्वं।
13अपरं प्रभोरभिरुचितं रूफं मम धर्म्ममाता या तस्य माता तामपि नमस्कारं वदत।
14अपरम् असुंकृतं फ्लिगोनं हर्म्मं पात्रबं हर्म्मिम् एतेषां सङ्गिभ्रातृगणञ्च नमस्कारं ज्ञापयध्वं।
15अपरं फिललगो यूलिया नीरियस्तस्य भगिन्यलुम्पा चैतान् एतैः सार्द्धं यावन्तः पवित्रलोका आसते तानपि नमस्कारं ज्ञापयध्वं।
16यूयं परस्परं पवित्रचुम्बनेन नमस्कुरुध्वं। ख्रीष्टस्य धर्म्मसमाजगणो युष्मान् नमस्कुरुते।
17हे भ्रातरो युष्मान् विनयेऽहं युष्माभि र्या शिक्षा लब्धा ताम् अतिक्रम्य ये विच्छेदान् विघ्नांश्च कुर्व्वन्ति तान् निश्चिनुत तेषां सङ्गं वर्जयत च।

Read रोमिणः 16रोमिणः 16
Compare रोमिणः 16:1-17रोमिणः 16:1-17