1पीलातो यीशुम् आनीय कशया प्राहारयत्।
2पश्चात् सेनागणः कण्टकनिर्म्मितं मुकुटं तस्य मस्तके समर्प्य वार्त्ताकीवर्णं राजपरिच्छदं परिधाप्य,
3हे यिहूदीयानां राजन् नमस्कार इत्युक्त्वा तं चपेटेनाहन्तुम् आरभत।
4तदा पीलातः पुनरपि बहिर्गत्वा लोकान् अवदत्, अस्य कमप्यपराधं न लभेऽहं, पश्यत तद् युष्मान् ज्ञापयितुं युष्माकं सन्निधौ बहिरेनम् आनयामि।
5ततः परं यीशुः कण्टकमुकुटवान् वार्त्ताकीवर्णवसनवांश्च बहिरागच्छत्। ततः पीलात उक्तवान् एनं मनुष्यं पश्यत।
6तदा प्रधानयाजकाः पदातयश्च तं दृष्ट्वा, एनं क्रुशे विध, एनं क्रुशे विध, इत्युक्त्वा रवितुं आरभन्त। ततः पीलातः कथितवान् यूयं स्वयम् एनं नीत्वा क्रुशे विधत, अहम् एतस्य कमप्यपराधं न प्राप्तवान्।
7यिहूदीयाः प्रत्यवदन् अस्माकं या व्यवस्थास्ते तदनुसारेणास्य प्राणहननम् उचितं यतोयं स्वम् ईश्वरस्य पुत्रमवदत्।
8पीलात इमां कथां श्रुत्वा महात्रासयुक्तः
9सन् पुनरपि राजगृह आगत्य यीशुं पृष्टवान् त्वं कुत्रत्यो लोकः? किन्तु यीशस्तस्य किमपि प्रत्युत्तरं नावदत्।
10१॰ ततः पीलात् कथितवान त्वं किं मया सार्द्धं न संलपिष्यसि ? त्वां क्रुशे वेधितुं वा मोचयितुं शक्ति र्ममास्ते इति किं त्वं न जानासि ? तदा यीशुः प्रत्यवदद् ईश्वरेणादŸां ममोपरि तव किमप्यधिपतित्वं न विद्यते, तथापि यो जनो मां तव हस्ते समार्पयत् तस्य महापातकं जातम्।
11तदा यीशुः प्रत्यवदद् ईश्वरेणादत्तं ममोपरि तव किमप्यधिपतित्वं न विद्यते, तथापि यो जनो मां तव हस्ते समार्पयत् तस्य महापातकं जातम्।
12तदारभ्य पीलातस्तं मोचयितुं चेष्टितवान् किन्तु यिहूदीया रुवन्तो व्याहरन् यदीमं मानवं त्यजसि तर्हि त्वं कैसरस्य मित्रं न भवसि, यो जनः स्वं राजानं वक्ति सएव कैमरस्य विरुद्धां कथां कथयति।
13एतां कथां श्रुत्वा पीलातो यीशुं बहिरानीय निस्तारोत्सवस्य आसादनदिनस्य द्वितीयप्रहरात् पूर्व्वं प्रस्तरबन्धननाम्नि स्थाने ऽर्थात् इब्रीयभाषया यद् गब्बिथा कथ्यते तस्मिन् स्थाने विचारासन उपाविशत्।
14अनन्तरं पीलातो यिहूदीयान् अवदत्, युष्माकं राजानं पश्यत।
15किन्तु एनं दूरीकुरु, एनं दूरीकुरु, एनं क्रुशे विध, इति कथां कथयित्वा ते रवितुम् आरभन्त; तदा पीलातः कथितवान् युष्माकं राजानं किं क्रुशे वेधिष्यामि? प्रधानयाजका उत्तरम् अवदन् कैसरं विना कोपि राजास्माकं नास्ति।
16ततः पीलातो यीशुं क्रुशे वेधितुं तेषां हस्तेषु समार्पयत्, ततस्ते तं धृत्वा नीतवन्तः।
17ततः परं यीशुः क्रुशं वहन् शिरःकपालम् अर्थाद् यद् इब्रीयभाषया गुल्गल्तां वदन्ति तस्मिन् स्थान उपस्थितः।
18ततस्ते मध्यस्थाने तं तस्योभयपार्श्वे द्वावपरौ क्रुशेऽविधन्।
19अपरम् एष यिहूदीयानां राजा नासरतीययीशुः, इति विज्ञापनं लिखित्वा पीलातस्तस्य क्रुशोपरि समयोजयत्।
20सा लिपिः इब्रीययूनानीयरोमीयभाषाभि र्लिखिता; यीशोः क्रुशवेधनस्थानं नगरस्य समीपं, तस्माद् बहवो यिहूदीयास्तां पठितुम् आरभन्त।
21यिहूदीयानां प्रधानयाजकाः पीलातमिति न्यवेदयन् यिहूदीयानां राजेति वाक्यं न किन्तु एष स्वं यिहूदीयानां राजानम् अवदद् इत्थं लिखतु।
22ततः पीलात उत्तरं दत्तवान् यल्लेखनीयं तल्लिखितवान्।
23इत्थं सेनागणो यीशुं क्रुशे विधित्वा तस्य परिधेयवस्त्रं चतुरो भागान् कृत्वा एकैकसेना एकैकभागम् अगृह्लत् तस्योत्तरीयवस्त्रञ्चागृह्लत्। किन्तूत्तरीयवस्त्रं सूचिसेवनं विना सर्व्वम् ऊतं।
24तस्मात्ते व्याहरन् एतत् कः प्राप्स्यति? तन्न खण्डयित्वा तत्र गुटिकापातं करवाम। विभजन्तेऽधरीयं मे वसनं ते परस्परं। ममोत्तरीयवस्त्रार्थं गुटिकां पातयन्ति च। इति यद्वाक्यं धर्म्मपुस्तके लिखितमास्ते तत् सेनागणेनेत्थं व्यवहरणात् सिद्धमभवत्।