15तथा निजान् मेषानपि जानामि, मेषाश्च मां जानान्ति, अहञ्च मेषार्थं प्राणत्यागं करोमि।
16अपरञ्च एतद् गृहीय मेषेभ्यो भिन्ना अपि मेषा मम सन्ति ते सकला आनयितव्याः; ते मम शब्दं श्रोष्यन्ति तत एको व्रज एको रक्षको भविष्यति।
17प्राणानहं त्यक्त्वा पुनः प्राणान् ग्रहीष्यामि, तस्मात् पिता मयि स्नेहं करोति।
18कश्चिज्जनो मम प्राणान् हन्तुं न शक्नोति किन्तु स्वयं तान् समर्पयामि तान् समर्पयितुं पुनर्ग्रहीतुञ्च मम शक्तिरास्ते भारमिमं स्वपितुः सकाशात् प्राप्तोहम्।
19अस्मादुपदेशात् पुनश्च यिहूदीयानां मध्ये भिन्नवाक्यता जाता।
20ततो बहवो व्याहरन् एष भूतग्रस्त उन्मत्तश्च, कुत एतस्य कथां शृणुथ?
21केचिद् अवदन् एतस्य कथा भूतग्रस्तस्य कथावन्न भवन्ति, भूतः किम् अन्धाय चक्षुषी दातुं शक्नोति?
22शीतकाले यिरूशालमि मन्दिरोत्सर्गपर्व्वण्युपस्थिते
23यीशुः सुलेमानो निःसारेण गमनागमने करोति,
24एतस्मिन् समये यिहूदीयास्तं वेष्टयित्वा व्याहरन् कति कालान् अस्माकं विचिकित्सां स्थापयिष्यामि? यद्यभिषिक्तो भवति तर्हि तत् स्पष्टं वद।
25तदा यीशुः प्रत्यवदद् अहम् अचकथं किन्तु यूयं न प्रतीथ, निजपितु र्नाम्ना यां यां क्रियां करोमि सा क्रियैव मम साक्षिस्वरूपा।
26किन्त्वहं पूर्व्वमकथयं यूयं मम मेषा न भवथ, कारणादस्मान् न विश्वसिथ।
27मम मेषा मम शब्दं शृण्वन्ति तानहं जानामि ते च मम पश्चाद् गच्छन्ति।
28अहं तेभ्योऽनन्तायु र्ददामि, ते कदापि न नंक्ष्यन्ति कोपि मम करात् तान् हर्त्तुं न शक्ष्यति।
29यो मम पिता तान् मह्यं दत्तवान् स सर्व्वस्मात् महान्, कोपि मम पितुः करात् तान् हर्त्तुं न शक्ष्यति।