24अपरमपि कथितवान् यूयं यद् यद् वाक्यं शृणुथ तत्र सावधाना भवत, यतो यूयं येन परिमाणेन परिमाथ तेनैव परिमाणेन युष्मदर्थमपि परिमास्यते; श्रोतारो यूयं युष्मभ्यमधिकं दास्यते।
25यस्याश्रये वर्द्धते तस्मै अपरमपि दास्यते, किन्तु यस्याश्रये न वर्द्धते तस्य यत् किञ्चिदस्ति तदपि तस्मान् नेष्यते।
26अनन्तरं स कथितवान् एको लोकः क्षेत्रे बीजान्युप्त्वा
27जागरणनिद्राभ्यां दिवानिशं गमयति, परन्तु तद्वीजं तस्याज्ञातरूपेणाङ्कुरयति वर्द्धते च;
28यतोहेतोः प्रथमतः पत्राणि ततः परं कणिशानि तत्पश्चात् कणिशपूर्णानि शस्यानि भूमिः स्वयमुत्पादयति;
29किन्तु फलेषु पक्केषु शस्यच्छेदनकालं ज्ञात्वा स तत्क्षणं शस्यानि छिनत्ति, अनेन तुल्यमीश्वरराज्यं।
30पुनः सोऽकथयद् ईश्वरराज्यं केन समं? केन वस्तुना सह वा तदुपमास्यामि?
31तत् सर्षपैकेन तुल्यं यतो मृदि वपनकाले सर्षपबीजं सर्व्वपृथिवीस्थबीजात् क्षुद्रं
32किन्तु वपनात् परम् अङ्कुरयित्वा सर्व्वशाकाद् बृहद् भवति, तस्य बृहत्यः शाखाश्च जायन्ते ततस्तच्छायां पक्षिण आश्रयन्ते।
33इत्थं तेषां बोधानुरूपं सोऽनेकदृष्टान्तैस्तानुपदिष्टवान्,
34दृष्टान्तं विना कामपि कथां तेभ्यो न कथितवान् पश्चान् निर्जने स शिष्यान् सर्व्वदृष्टान्तार्थं बोधितवान्।
35तद्दिनस्य सन्ध्यायां स तेभ्योऽकथयद् आगच्छत वयं पारं याम।
36तदा ते लोकान् विसृज्य तमविलम्बं गृहीत्वा नौकया प्रतस्थिरे; अपरा अपि नावस्तया सह स्थिताः।
37ततः परं महाझञ्भ्शगमात् नौ र्दोलायमाना तरङ्गेण जलैः पूर्णाभवच्च।
38तदा स नौकाचश्चाद्भागे उपधाने शिरो निधाय निद्रित आसीत् ततस्ते तं जागरयित्वा जगदुः, हे प्रभो, अस्माकं प्राणा यान्ति किमत्र भवतश्चिन्ता नास्ति?
39तदा स उत्थाय वायुं तर्जितवान् समुद्रञ्चोक्तवान् शान्तः सुस्थिरश्च भव; ततो वायौ निवृत्तेऽब्धिर्निस्तरङ्गोभूत्।