Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - प्रेरिताः - प्रेरिताः 8

प्रेरिताः 8:7-12

Help us?
Click on verse(s) to share them!
7तस्मात् लाका ईदृशं तस्याश्चर्य्यं कर्म्म विलोक्य निशम्य च सर्व्व एकचित्तीभूय तेनोक्ताख्याने मनांसि न्यदधुः।
8तस्मिन्नगरे महानन्दश्चाभवत्।
9ततः पूर्व्वं तस्मिन्नगरे शिमोन्नामा कश्चिज्जनो बह्वी र्मायाक्रियाः कृत्वा स्वं कञ्चन महापुरुषं प्रोच्य शोमिरोणीयानां मोहं जनयामास।
10तस्मात् स मानुष ईश्वरस्य महाशक्तिस्वरूप इत्युक्त्वा बालवृद्धवनिताः सर्व्वे लाकास्तस्मिन् मनांसि न्यदधुः।
11स बहुकालान् मायाविक्रियया सर्व्वान् अतीव मोहयाञ्चकार, तस्मात् ते तं मेनिरे।
12किन्त्वीश्वरस्य राज्यस्य यीशुख्रीष्टस्य नाम्नश्चाख्यानप्रचारिणः फिलिपस्य कथायां विश्वस्य तेषां स्त्रीपुरुषोभयलोका मज्जिता अभवन्।

Read प्रेरिताः 8प्रेरिताः 8
Compare प्रेरिताः 8:7-12प्रेरिताः 8:7-12