25त्वं निजसेवकेन दायूदा वाक्यमिदम् उवचिथ, मनुष्या अन्यदेशीयाः कुर्व्वन्ति कलहं कुतः। लोकाः सर्व्वे किमर्थं वा चिन्तां कुर्व्वन्ति निष्फलां।
26परमेशस्य तेनैवाभिषिक्तस्य जनस्य च। विरुद्धमभितिष्ठन्ति पृथिव्याः पतयः कुतः॥
27फलतस्तव हस्तेन मन्त्रणया च पूर्व्व यद्यत् स्थिरीकृतं तद् यथा सिद्धं भवति तदर्थं त्वं यम् अथिषिक्तवान् स एव पवित्रो यीशुस्तस्य प्रातिकूल्येन हेरोद् पन्तीयपीलातो
28ऽन्यदेशीयलोका इस्रायेल्लोकाश्च सर्व्व एते सभायाम् अतिष्ठन्।
29हे परमेश्वर अधुना तेषां तर्जनं गर्जनञ्च शृणु;
30तथा स्वास्थ्यकरणकर्म्मणा तव बाहुबलप्रकाशपूर्व्वकं तव सेवकान् निर्भयेन तव वाक्यं प्रचारयितुं तव पवित्रपुत्रस्य यीशो र्नाम्ना आश्चर्य्याण्यसम्भवानि च कर्म्माणि कर्त्तुञ्चाज्ञापय।
31इत्थं प्रार्थनया यत्र स्थाने ते सभायाम् आसन् तत् स्थानं प्राकम्पत; ततः सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त ईश्वरस्य कथाम् अक्षोभेण प्राचारयन्।
32अपरञ्च प्रत्ययकारिलोकसमूहा एकमनस एकचित्तीभूय स्थिताः। तेषां केपि निजसम्पत्तिं स्वीयां नाजानन् किन्तु तेषां सर्व्वाः सम्पत्त्यः साधारण्येन स्थिताः।
33अन्यच्च प्रेरिता महाशक्तिप्रकाशपूर्व्वकं प्रभो र्यीशोरुत्थाने साक्ष्यम् अददुः, तेषु सर्व्वेषु महानुग्रहोऽभवच्च।