Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - प्रेरिताः - प्रेरिताः 4

प्रेरिताः 4:15-25

Help us?
Click on verse(s) to share them!
15तदा ते सभातः स्थानान्तरं गन्तुं तान् आज्ञाप्य स्वयं परस्परम् इति मन्त्रणामकुर्व्वन्
16तौ मानवौ प्रति किं कर्त्तव्यं? तावेकं प्रसिद्धम् आश्चर्य्यं कर्म्म कृतवन्तौ तद् यिरूशालम्निवासिनां सर्व्वेषां लोकानां समीपे प्राकाशत तच्च वयमपह्नोतुं न शक्नुमः।
17किन्तु लोकानां मध्यम् एतद् यथा न व्याप्नोति तदर्थं तौ भयं प्रदर्श्य तेन नाम्ना कमपि मनुष्यं नोपदिशतम् इति दृढं निषेधामः।
18ततस्ते प्रेरितावाहूय एतदाज्ञापयन् इतः परं यीशो र्नाम्ना कदापि कामपि कथां मा कथयतं किमपि नोपदिशञ्च।
19ततः पितरयोहनौ प्रत्यवदताम् ईश्वरस्याज्ञाग्रहणं वा युष्माकम् आज्ञाग्रहणम् एतयो र्मध्ये ईश्वरस्य गोचरे किं विहितं? यूयं तस्य विवेचनां कुरुत।
20वयं यद् अपश्याम यदशृणुम च तन्न प्रचारयिष्याम एतत् कदापि भवितुं न शक्नोति।
21यदघटत तद् दृष्टा सर्व्वे लोका ईश्वरस्य गुणान् अन्ववदन् तस्मात् लोकभयात् तौ दण्डयितुं कमप्युपायं न प्राप्य ते पुनरपि तर्जयित्वा तावत्यजन्।
22यस्य मानुषस्यैतत् स्वास्थ्यकरणम् आश्चर्य्यं कर्म्माक्रियत तस्य वयश्चत्वारिंशद्वत्सरा व्यतीताः।
23ततः परं तौ विसृष्टौ सन्तौ स्वसङ्गिनां सन्निधिं गत्वा प्रधानयाजकैः प्राचीनलोकैश्च प्रोक्ताः सर्व्वाः कथा ज्ञापितवन्तौ।
24तच्छ्रुत्वा सर्व्व एकचित्तीभूय ईश्वरमुद्दिश्य प्रोच्चैरेतत् प्रार्थयन्त, हे प्रभो गगणपृथिवीपयोधीनां तेषु च यद्यद् आस्ते तेषां स्रष्टेश्वरस्त्वं।
25त्वं निजसेवकेन दायूदा वाक्यमिदम् उवचिथ, मनुष्या अन्यदेशीयाः कुर्व्वन्ति कलहं कुतः। लोकाः सर्व्वे किमर्थं वा चिन्तां कुर्व्वन्ति निष्फलां।

Read प्रेरिताः 4प्रेरिताः 4
Compare प्रेरिताः 4:15-25प्रेरिताः 4:15-25