Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - प्रेरिताः - प्रेरिताः 28

प्रेरिताः 28:3-23

Help us?
Click on verse(s) to share them!
3किन्तु पौल इन्धनानि संगृह्य यदा तस्मिन् अग्रौ निरक्षिपत्, तदा वह्नेः प्रतापात् एकः कृष्णसर्पो निर्गत्य तस्य हस्ते द्रष्टवान्।
4तेऽसभ्यलोकास्तस्य हस्ते सर्पम् अवलम्बमानं दृष्ट्वा परस्परम् उक्तवन्त एष जनोऽवश्यं नरहा भविष्यति, यतो यद्यपि जलधे रक्षां प्राप्तवान् तथापि प्रतिफलदायक एनं जीवितुं न ददाति।
5किन्तु स हस्तं विधुन्वन् तं सर्पम् अग्निमध्ये निक्षिप्य कामपि पीडां नाप्तवान्।
6ततो विषज्वालया एतस्य शरीरं स्फीतं भविष्यति यद्वा हठादयं प्राणान् त्यक्ष्यतीति निश्चित्य लोका बहुक्षणानि यावत् तद् द्रष्टुं स्थितवन्तः किन्तु तस्य कस्याश्चिद् विपदोऽघटनात् ते तद्विपरीतं विज्ञाय भाषितवन्त एष कश्चिद् देवो भवेत्।
7पुब्लियनामा जन एकस्तस्योपद्वीपस्याधिपतिरासीत् तत्र तस्य भूम्यादि च स्थितं। स जनोऽस्मान् निजगृहं नीत्वा सौजन्यं प्रकाश्य दिनत्रयं यावद् अस्माकं आतिथ्यम् अकरोत्।
8तदा तस्य पुब्लियस्य पिता ज्वरातिसारेण पीड्यमानः सन् शय्यायाम् आसीत्; ततः पौलस्तस्य समीपं गत्वा प्रार्थनां कृत्वा तस्य गात्रे हस्तं समर्प्य तं स्वस्थं कृतवान्।
9इत्थं भूते तद्वीपनिवासिन इतरेपि रोगिलोका आगत्य निरामया अभवन्।
10तस्मात्तेऽस्माकम् अतीव सत्कारं कृतवन्तः, विशेषतः प्रस्थानसमये प्रयोजनीयानि नानद्रव्याणि दत्तवन्तः।
11इत्थं तत्र त्रिषु मासेषु गतेषु यस्य चिह्नं दियस्कूरी तादृश एकः सिकन्दरीयनगरस्य पोतः शीतकालं यापयन् तस्मिन् उपद्वीपे ऽतिष्ठत् तमेव पोतं वयम् आरुह्य यात्राम् अकुर्म्म।
12ततः प्रथमतः सुराकूसनगरम् उपस्थाय तत्र त्रीणि दिनानि स्थितवन्तः।
13तस्माद् आवृत्य रीगियनगरम् उपस्थिताः दिनैकस्मात् परं दक्षिणवयौ सानुकूल्ये सति परस्मिन् दिवसे पतियलीनगरम् उपातिष्ठाम।
14ततोऽस्मासु तत्रत्यं भ्रातृगणं प्राप्तेषु ते स्वैः सार्द्धम् अस्मान् सप्त दिनानि स्थापयितुम् अयतन्त, इत्थं वयं रोमानगरम् प्रत्यगच्छाम।
15तस्मात् तत्रत्याः भ्रातरोऽस्माकम् आगमनवार्त्तां श्रुत्वा आप्पियफरं त्रिष्टावर्णीञ्च यावद् अग्रेसराः सन्तोस्मान् साक्षात् कर्त्तुम् आगमन्; तेषां दर्शनात् पौल ईश्वरं धन्यं वदन् आश्वासम् आप्तवान्।
16अस्मासु रोमानगरं गतेषु शतसेनापतिः सर्व्वान् बन्दीन् प्रधानसेनापतेः समीपे समार्पयत् किन्तु पौलाय स्वरक्षकपदातिना सह पृथग् वस्तुम् अनुमतिं दत्तवान्।
17दिनत्रयात् परं पौलस्तद्देशस्थान् प्रधानयिहूदिन आहूतवान् ततस्तेषु समुपस्थितेषु स कथितवान्, हे भ्रातृगण निजलोकानां पूर्व्वपुरुषाणां वा रीते र्विपरीतं किञ्चन कर्म्माहं नाकरवं तथापि यिरूशालमनिवासिनो लोका मां बन्दिं कृत्वा रोमिलोकानां हस्तेषु समर्पितवन्तः।
18रोमिलोका विचार्य्य मम प्राणहननार्हं किमपि कारणं न प्राप्य मां मोचयितुम् ऐच्छन्;
19किन्तु यिहूदिलोकानाम् आपत्त्या मया कैसरराजस्य समीपे विचारस्य प्रार्थना कर्त्तव्या जाता नोचेत् निजदेशीयलोकान् प्रति मम कोप्यभियोगो नास्ति।
20एतत्कारणाद् अहं युष्मान् द्रष्टुं संलपितुञ्चाहूयम् इस्रायेल्वशीयानां प्रत्याशाहेतोहम् एतेन शुङ्खलेन बद्धोऽभवम्।
21तदा ते तम् अवादिषुः, यिहूदीयदेशाद् वयं त्वामधि किमपि पत्रं न प्राप्ता ये भ्रातरः समायातास्तेषां कोपि तव कामपि वार्त्तां नावदत् अभद्रमपि नाकथयच्च।
22तव मतं किमिति वयं त्वत्तः श्रोतुमिच्छामः। यद् इदं नवीनं मतमुत्थितं तत् सर्व्वत्र सर्व्वेषां निकटे निन्दितं जातम इति वयं जानीमः।
23तैस्तदर्थम् एकस्मिन् दिने निरूपिते तस्मिन् दिने बहव एकत्र मिलित्वा पौलस्य वासगृहम् आगच्छन् तस्मात् पौल आ प्रातःकालात् सन्ध्याकालं यावन् मूसाव्यवस्थाग्रन्थाद् भविष्यद्वादिनां ग्रन्थेभ्यश्च यीशोः कथाम् उत्थाप्य ईश्वरस्य राज्ये प्रमाणं दत्वा तेषां प्रवृत्तिं जनयितुं चेष्टितवान्।

Read प्रेरिताः 28प्रेरिताः 28
Compare प्रेरिताः 28:3-23प्रेरिताः 28:3-23