Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - रोमिणः - रोमिणः 11

रोमिणः 11:22-31

Help us?
Click on verse(s) to share them!
22इत्यत्रेश्वरस्य यादृशी कृपा तादृशं भयानकत्वमपि त्वया दृश्यतां; ये पतितास्तान् प्रति तस्य भयानकत्वं दृश्यतां, त्वञ्च यदि तत्कृपाश्रितस्तिष्ठसि तर्हि त्वां प्रति कृपा द्रक्ष्यते; नो चेत् त्वमपि तद्वत् छिन्नो भविष्यसि।
23अपरञ्च ते यद्यप्रत्यये न तिष्ठन्ति तर्हि पुनरपि रोपयिष्यन्ते यस्मात् तान् पुनरपि रोपयितुम् इश्वरस्य शक्तिरास्ते।
24वन्यजितवृक्षस्य शाखा सन् त्वं यदि ततश्छिन्नो रीतिव्यत्ययेनोत्तमजितवृक्षे रोेेपितोऽभवस्तर्हि तस्य वृक्षस्य स्वीया याः शाखास्ताः किं पुनः स्ववृक्षे संलगितुं न शक्नुवन्ति?
25हे भ्रातरो युष्माकम् आत्माभिमानो यन्न जायते तदर्थं ममेदृशी वाञ्छा भवति यूयं एतन्निगूढतत्त्वम् अजानन्तो यन्न तिष्ठथ; वस्तुतो यावत्कालं सम्पूर्णरूपेण भिन्नदेशिनां संग्रहो न भविष्यति तावत्कालम् अंशत्वेन इस्रायेलीयलोकानाम् अन्धता स्थास्यति;
26पश्चात् ते सर्व्वे परित्रास्यन्ते; एतादृशं लिखितमप्यास्ते, आगमिष्यति सीयोनाद् एको यस्त्राणदायकः। अधर्म्मं याकुबो वंशात् स तु दूरीकरिष्यति।
27तथा दूरीकरिष्यामि तेषां पापान्यहं यदा। तदा तैरेव सार्द्धं मे नियमोऽयं भविष्यति।
28सुसंवादात् ते युष्माकं विपक्षा अभवन् किन्त्वभिरुचितत्वात् ते पितृलोकानां कृते प्रियपात्राणि भवन्ति।
29यत ईश्वरस्य दानाद् आह्वानाञ्च पश्चात्तापो न भवति।
30अतएव पूर्व्वम् ईश्वरेऽविश्वासिनः सन्तोऽपि यूयं यद्वत् सम्प्रति तेषाम् अविश्वासकारणाद् ईश्वरस्य कृपापात्राणि जातास्तद्वद्
31इदानीं तेऽविश्वासिनः सन्ति किन्तु युष्माभि र्लब्धकृपाकारणात् तैरपि कृपा लप्स्यते।

Read रोमिणः 11रोमिणः 11
Compare रोमिणः 11:22-31रोमिणः 11:22-31