Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - योहनः - योहनः 7

योहनः 7:19-30

Help us?
Click on verse(s) to share them!
19मूसा युष्मभ्यं व्यवस्थाग्रन्थं किं नाददात्? किन्तु युष्माकं कोपि तां व्यवस्थां न समाचरति। मां हन्तुं कुतो यतध्वे?
20तदा लोका अवदन् त्वं भूतग्रस्तस्त्वां हन्तुं को यतते?
21ततो यीशुरवोचद् एकं कर्म्म मयाकारि तस्माद् यूयं सर्व्व महाश्चर्य्यं मन्यध्वे।
22मूसा युष्मभ्यं त्वक्छेदविधिं प्रददौ स मूसातो न जातः किन्तु पितृपुरुषेभ्यो जातः तेन विश्रामवारेऽपि मानुषाणां त्वक्छेदं कुरुथ।
23अतएव विश्रामवारे मनुष्याणां त्वक्छेदे कृते यदि मूसाव्यवस्थामङ्गनं न भवति तर्हि मया विश्रामवारे मानुषः सम्पूर्णरूपेण स्वस्थोऽकारि तत्कारणाद् यूयं किं मह्यं कुप्यथ?
24सपक्षपातं विचारमकृत्वा न्याय्यं विचारं कुरुत।
25तदा यिरूशालम् निवासिनः कतिपयजना अकथयन् इमे यं हन्तुं चेष्टन्ते स एवायं किं न?
26किन्तु पश्यत निर्भयः सन् कथां कथयति तथापि किमपि अ वदन्त्येते अयमेवाभिषिक्त्तो भवतीति निश्चितं किमधिपतयो जानन्ति?
27मनुजोयं कस्मादागमद् इति वयं जानोमः किन्त्वभिषिक्त्त आगते स कस्मादागतवान् इति कोपि ज्ञातुं न शक्ष्यति।
28तदा यीशु र्मध्येमन्दिरम् उपदिशन् उच्चैःकारम् उक्त्तवान् यूयं किं मां जानीथ? कस्माच्चागतोस्मि तदपि किं जानीथ? नाहं स्वत आगतोस्मि किन्तु यः सत्यवादी सएव मां प्रेषितवान् यूयं तं न जानीथ।
29तमहं जाने तेनाहं प्रेरित अगतोस्मि।
30तस्माद् यिहूदीयास्तं धर्त्तुम् उद्यतास्तथापि कोपि तस्य गात्रे हस्तं नार्पयद् यतो हेतोस्तदा तस्य समयो नोपतिष्ठति।

Read योहनः 7योहनः 7
Compare योहनः 7:19-30योहनः 7:19-30