Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - योहनः - योहनः 4

योहनः 4:8-18

Help us?
Click on verse(s) to share them!
8तदा शिष्याः खाद्यद्रव्याणि क्रेतुं नगरम् अगच्छन्।
9यीशुः शोमिरोणीयां तां योषितम् व्याहार्षीत् मह्यं किञ्चित् पानीयं पातुं देहि। किन्तु शोमिरोणीयैः साकं यिहूदीयलोका न व्यवाहरन् तस्माद्धेतोः साकथयत् शोमिरोणीया योषितदहं त्वं यिहूदीयोसि कथं मत्तः पानीयं पातुम् इच्छसि?
10ततो यीशुरवदद् ईश्वरस्य यद्दानं तत्कीदृक् पानीयं पातुं मह्यं देहि य इत्थं त्वां याचते स वा क इति चेदज्ञास्यथास्तर्हि तमयाचिष्यथाः स च तुभ्यममृतं तोयमदास्यत्।
11तदा सा सीमन्तिनी भाषितवति, हे महेच्छ प्रहिर्गम्भीरो भवतो नीरोत्तोलनपात्रं नास्ती च तस्मात् तदमृतं कीलालं कुतः प्राप्स्यसि?
12योस्मभ्यम् इममन्धूं ददौ, यस्य च परिजना गोमेषादयश्च सर्व्वेऽस्य प्रहेः पानीयं पपुरेतादृशो योस्माकं पूर्व्वपुरुषो याकूब् तस्मादपि भवान् महान् किं?
13ततो यीशुरकथयद् इदं पानीयं सः पिवति स पुनस्तृषार्त्तो भविष्यति,
14किन्तु मया दत्तं पानीयं यः पिवति स पुनः कदापि तृषार्त्तो न भविष्यति। मया दत्तम् इदं तोयं तस्यान्तः प्रस्रवणरूपं भूत्वा अनन्तायुर्यावत् स्रोष्यति।
15तदा सा वनिताकथयत् हे महेच्छ तर्हि मम पुनः पीपासा यथा न जायते तोयोत्तोलनाय यथात्रागमनं न भवति च तदर्थं मह्यं तत्तोयं देही।
16ततो यीशूरवदद्याहि तव पतिमाहूय स्थानेऽत्रागच्छ।
17सा वामावदत् मम पतिर्नास्ति। यीशुरवदत् मम पतिर्नास्तीति वाक्यं भद्रमवोचः।
18यतस्तव पञ्च पतयोभवन् अधुना तु त्वया सार्द्धं यस्तिष्ठति स तव भर्त्ता न वाक्यमिदं सत्यमवादिः।

Read योहनः 4योहनः 4
Compare योहनः 4:8-18योहनः 4:8-18