Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - योहनः - योहनः 4

योहनः 4:45-54

Help us?
Click on verse(s) to share them!
45अनन्तरं ये गालीली लियलोका उत्सवे गता उत्सवसमये यिरूशलम् नगरे तस्य सर्व्वाः क्रिया अपश्यन् ते गालीलम् आगतं तम् आगृह्लन्।
46ततः परम् यीशु र्यस्मिन् कान्नानगरे जलं द्राक्षारसम् आकरोत् तत् स्थानं पुनरगात्। तस्मिन्नेव समये कस्यचिद् राजसभास्तारस्य पुत्रः कफर्नाहूमपुरी रोगग्रस्त आसीत्।
47स येहूदीयदेशाद् यीशो र्गालीलागमनवार्त्तां निशम्य तस्य समीपं गत्वा प्रार्थ्य व्याहृतवान् मम पुत्रस्य प्रायेण काल आसन्नः भवान् आगत्य तं स्वस्थं करोतु।
48तदा यीशुरकथयद् आश्चर्य्यं कर्म्म चित्रं चिह्नं च न दृष्टा यूयं न प्रत्येष्यथ।
49ततः स सभासदवदत् हे महेच्छ मम पुत्रे न मृते भवानागच्छतु।
50यीशुस्तमवदद् गच्छ तव पुत्रोऽजीवीत् तदा यीशुनोक्तवाक्ये स विश्वस्य गतवान्।
51गमनकाले मार्गमध्ये दासास्तं साक्षात्प्राप्यावदन् भवतः पुत्रोऽजीवीत्।
52ततः कं कालमारभ्य रोगप्रतीकारारम्भो जाता इति पृष्टे तैरुक्तं ह्यः सार्द्धदण्डद्वयाधिकद्वितीययामे तस्य ज्वरत्यागोऽभवत्।
53तदा यीशुस्तस्मिन् क्षणे प्रोक्तवान् तव पुत्रोऽजीवीत् पिता तद्बुद्ध्वा सपरिवारो व्यश्वसीत्।
54यिहूदीयदेशाद् आगत्य गालीलि यीशुरेतद् द्वितीयम् आश्चर्य्यकर्म्माकरोत्।

Read योहनः 4योहनः 4
Compare योहनः 4:45-54योहनः 4:45-54