Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - मार्कः - मार्कः 7

मार्कः 7:9-15

Help us?
Click on verse(s) to share them!
9अन्यञ्चाकथयत् यूयं स्वपरम्परागतवाक्यस्य रक्षार्थं स्पष्टरूपेण ईश्वराज्ञां लोपयथ।
10यतो मूसाद्वारा प्रोक्तमस्ति स्वपितरौ सम्मन्यध्वं यस्तु मातरं पितरं वा दुर्व्वाक्यं वक्ति स नितान्तं हन्यतां।
11किन्तु मदीयेन येन द्रव्येण तवोपकारोभवत् तत् कर्ब्बाणमर्थाद् ईश्वराय निवेदितम् इदं वाक्यं यदि कोपि पितरं मातरं वा वक्ति
12तर्हि यूयं मातुः पितु र्वोपकारं कर्त्तां तं वारयथ।
13इत्थं स्वप्रचारितपरम्परागतवाक्येन यूयम् ईश्वराज्ञां मुधा विधद्व्वे, ईदृशान्यन्यान्यनेकानि कर्म्माणि कुरुध्वे।
14अथ स लोकानाहूय बभाषे यूयं सर्व्वे मद्वाक्यं शृणुत बुध्यध्वञ्च।
15बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां शक्नोति ईदृशं किमपि वस्तु नास्ति, वरम् अन्तराद् बहिर्गतं यद्वस्तु तन्मनुजम् अमेध्यं करोति।

Read मार्कः 7मार्कः 7
Compare मार्कः 7:9-15मार्कः 7:9-15