51यीशुना ते पृष्टा युष्माभिः किमेतान्याख्यानान्यबुध्यन्त? तदा ते प्रत्यवदन्, सत्यं प्रभो।
52तदानीं स कथितवान्, निजभाण्डागारात् नवीनपुरातनानि वस्तूनि निर्गमयति यो गृहस्थः स इव स्वर्गराज्यमधि शिक्षिताः स्वर्व उपदेष्टारः।
53अनन्तरं यीशुरेताः सर्व्वा दृष्टान्तकथाः समाप्य तस्मात् स्थानात् प्रतस्थे। अपरं स्वदेशमागत्य जनान् भजनभवन उपदिष्टवान्;
54ते विस्मयं गत्वा कथितवन्त एतस्यैतादृशं ज्ञानम् आश्चर्य्यं कर्म्म च कस्माद् अजायत?
55किमयं सूत्रधारस्य पुत्रो नहि? एतस्य मातु र्नाम च किं मरियम् नहि? याकुब्-यूषफ्-शिमोन्-यिहूदाश्च किमेतस्य भ्रातरो नहि?