Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - प्रेरिताः - प्रेरिताः 9

प्रेरिताः 9:5-13

Help us?
Click on verse(s) to share them!
5स पृष्टवान्, हे प्रभो भवान् कः? तदा प्रभुरकथयत् यं यीशुं त्वं ताडयसि स एवाहं; कण्टकस्य मुखे पदाघातकरणं तव कष्टम्।
6तदा कम्पमानो विस्मयापन्नश्च सोवदत् हे प्रभो मया किं कर्त्तव्यं? भवत इच्छा का? ततः प्रभुराज्ञापयद् उत्थाय नगरं गच्छ तत्र त्वया यत् कर्त्तव्यं तद् वदिष्यते।
7तस्य सङ्गिनो लोका अपि तं शब्दं श्रुतवन्तः किन्तु कमपि न दृष्ट्वा स्तब्धाः सन्तः स्थितवन्तः।
8अनन्तरं शौलो भूमित उत्थाय चक्षुषी उन्मील्य कमपि न दृष्टवान्। तदा लोकास्तस्य हस्तौ धृत्वा दम्मेषक्नगरम् आनयन्।
9ततः स दिनत्रयं यावद् अन्धो भूत्वा न भुक्तवान् पीतवांश्च।
10तदनन्तरं प्रभुस्तद्दम्मेषक्नगरवासिन एकस्मै शिष्याय दर्शनं दत्वा आहूतवान् हे अननिय। ततः स प्रत्यवादीत्, हे प्रभो पश्य शृणोमि।
11तदा प्रभुस्तमाज्ञापयत् त्वमुत्थाय सरलनामानं मार्गं गत्वा यिहूदानिवेशने तार्षनगरीयं शौलनामानं जनं गवेषयन् पृच्छ;
12पश्य स प्रार्थयते, तथा अननियनामक एको जनस्तस्य समीपम् आगत्य तस्य गात्रे हस्तार्पणं कृत्वा दृष्टिं ददातीत्थं स्वप्ने दृष्टवान्।
13तस्माद् अननियः प्रत्यवदत् हे प्रभो यिरूशालमि पवित्रलोकान् प्रति सोऽनेकहिंसां कृतवान्;

Read प्रेरिताः 9प्रेरिताः 9
Compare प्रेरिताः 9:5-13प्रेरिताः 9:5-13