3यतो यिहूदीयलोकानां मध्ये या या रीतिः सूक्ष्मविचाराश्च सन्ति तेषु भवान् विज्ञतमः; अतएव प्रार्थये धैर्य्यमवलम्ब्य मम निवेदनं शृणोतु।
4अहं यिरूशालम्नगरे स्वदेशीयलोकानां मध्ये तिष्ठन् आ यौवनकालाद् यद्रूपम् आचरितवान् तद् यिहूदीयलोकाः सर्व्वे विदन्ति।
5अस्माकं सर्व्वेभ्यः शुद्धतमं यत् फिरूशीयमतं तदवलम्बी भूत्वाहं कालं यापितवान् ये जना आ बाल्यकालान् मां जानान्ति ते एतादृशं साक्ष्यं यदि ददाति तर्हि दातुं शक्नुवन्ति।
6किन्तु हे आग्रिप्पराज ईश्वरोऽस्माकं पूर्व्वपुरुषाणां निकटे यद् अङ्गीकृतवान् तस्य प्रत्याशाहेतोरहम् इदानीं विचारस्थाने दण्डायमानोस्मि।
7तस्याङ्गीकारस्य फलं प्राप्तुम् अस्माकं द्वादशवंशा दिवानिशं महायत्नाद् ईश्वरसेवनं कृत्वा यां प्रत्याशां कुर्व्वन्ति तस्याः प्रत्याशाया हेतोरहं यिहूदीयैरपवादितोऽभवम्।
8ईश्वरो मृतान् उत्थापयिष्यतीति वाक्यं युष्माकं निकटेऽसम्भवं कुतो भवेत्?
9नासरतीययीशो र्नाम्नो विरुद्धं नानाप्रकारप्रतिकूलाचरणम् उचितम् इत्यहं मनसि यथार्थं विज्ञाय
10यिरूशालमनगरे तदकरवं फलतः प्रधानयाजकस्य निकटात् क्षमतां प्राप्य बहून् पवित्रलोकान् कारायां बद्धवान् विशेषतस्तेषां हननसमये तेषां विरुद्धां निजां सम्मतिं प्रकाशितवान्।
11वारं वारं भजनभवनेषु तेभ्यो दण्डं प्रदत्तवान् बलात् तं धर्म्मं निन्दयितवांश्च पुनश्च तान् प्रति महाक्रोधाद् उन्मत्तः सन् विदेशीयनगराणि यावत् तान् ताडितवान्।
12इत्थं प्रधानयाजकस्य समीपात् शक्तिम् आज्ञापत्रञ्च लब्ध्वा दम्मेषक्नगरं गतवान्।
13तदाहं हे राजन् मार्गमध्ये मध्याह्नकाले मम मदीयसङ्गिनां लोकानाञ्च चतसृषु दिक्षु गगणात् प्रकाशमानां भास्करतोपि तेजस्वतीं दीप्तिं दृष्टवान्।
14तस्माद् अस्मासु सर्व्वेषु भूमौ पतितेषु सत्सु हे शौल है शौल कुतो मां ताडयसि? कण्टकानां मुखे पादाहननं तव दुःसाध्यम् इब्रीयभाषया गदित एतादृश एकः शब्दो मया श्रुतः।
15तदाहं पृष्टवान् हे प्रभो को भवान्? ततः स कथितवान् यं यीशुं त्वं ताडयसि सोहं,
16किन्तु समुत्तिष्ठ त्वं यद् दृष्टवान् इतः पुनञ्च यद्यत् त्वां दर्शयिष्यामि तेषां सर्व्वेषां कार्य्याणां त्वां साक्षिणं मम सेवकञ्च कर्त्तुम् दर्शनम् अदाम्।