15अतएव साम्प्रतं सभासद्लोकैः सह वयं तस्मिन् कञ्चिद् विशेषविचारं करिष्यामस्तदर्थं भवान् श्वो ऽस्माकं समीपं तम् आनयत्विति सहस्रसेनापतये निवेदनं कुरुत तेन युष्माकं समीपं उपस्थितेः पूर्व्वं वयं तं हन्तु सज्जिष्याम।
16तदा पौलस्य भागिनेयस्तेषामिति मन्त्रणां विज्ञाय दुर्गं गत्वा तां वार्त्तां पौलम् उक्तवान्।
17तस्मात् पौल एकं शतसेनापतिम् आहूय वाक्यमिदम् भाषितवान् सहस्रसेनापतेः समीपेऽस्य युवमनुष्यस्य किञ्चिन्निवेदनम् आस्ते, तस्मात् तत्सविधम् एनं नय।
18ततः स तमादाय सहस्रसेनापतेः समीपम् उपस्थाय कथितवान्, भवतः समीपेऽस्य किमपि निवेदनमास्ते तस्मात् बन्दिः पौलो मामाहूय भवतः समीपम् एनम् आनेतुं प्रार्थितवान्।
19तदा सहस्रसेनापतिस्तस्य हस्तं धृत्वा निर्जनस्थानं नीत्वा पृष्ठवान् तव किं निवेदनं? तत् कथय।
20ततः सोकथयत्, यिहूदीयलाकाः पौले कमपि विशेषविचारं छलं कृत्वा तं सभां नेतुं भवतः समीपे निवेदयितुं अमन्त्रयन्।
21किन्तु मवता तन्न स्वीकर्त्तव्यं यतस्तेषां मध्येवर्त्तिनश्चत्वारिंशज्जनेभ्यो ऽधिकलोका एकमन्त्रणा भूत्वा पौलं न हत्वा भोजनं पानञ्च न करिष्याम इति शपथेन बद्धाः सन्तो घातका इव सज्जिता इदानीं केवलं भवतो ऽनुमतिम् अपेक्षन्ते।